________________
www.kobairthorg
Acharya Shri Kailassagersuri Gyanmandat
Shri Mahavir Jain Aradhana Kendra
ॐ ह्री श्री क्ली महावीर! शुद्ध प्रेम प्रकाशक? प्राकट्यं प्रेमधर्मस्य, मद्धृदि कुरु सत्वरम्॥२३॥ ॐ ह्री सद्गुरुदेवाय, नमोऽहं सत्यवादिने । मत्त्वत्तद्भेदनाशेन, द्रुतं प्रेमोद्भवं कुरु ॥ २१४ ॥ षट् चक्रेषु महामन्त्र-जापेन देवदर्शनम्। पूर्वजन्मादिबोधश्च, जायते प्रेमधारिणाम् ॥२१५॥ बालहत्यादिकं पापं, नश्यति मन्त्र जापतः। प्रेमयोग्यं महामन्त्र-मित्येवं हृदि धारय॥२१६॥ षट्चक्राधिपदेवाय, शुद्धप्रेमस्वरूपिणे। महाज्योतिःस्वरूपाय,नमःप्रेम्णेऽस्तु सर्वदा॥२१७॥ इत्येवं मन्त्रजापेन, प्रेम्णः सिद्धिर्भवेद्धृदि। सद्गुरोर्गमयोगेन, चात्मज्ञानिमनीषिणाम् ॥२१८॥ सद्गुरुप्रेमिभक्ताय, कामभोग विरागिणे। प्रेमगीता शुभा देया, प्रेमगीतार्थयोगिभिः । २१९॥ नास्तिकाय नदेया सा,श्रद्धाहीनाय नोकदा। नचदेया विधर्मिभ्यः, प्रेमगीता सनातना।२२०॥ दत्तायां प्रेमगीताया-मयोग्याय पदे पदे। बालहत्यादिदोषाः स्यु-तृणां नैव संशयः॥२२१॥ कृत्वा शिष्यश्च सद्भक्तं, सद्गुरुभिः प्रतिज्ञया। प्रेमधर्मः प्रदातव्यः, सर्वधर्मस्वरूपकः ॥२२२॥ श्रद्धायुक्ताजनाः सर्वे, प्रेमधर्माधिकारिणः।मातृगुर्वादि सद्भक्ता-नीतिमार्गाऽनुयायिनः ।२२३ महावीरस्य भक्तानां, प्रेमधर्मप्रवर्त्तनम् । भविष्यति कलौ हृद्यं, सर्वसंसारतारकम् ॥२२४॥
___ [१९]
For Private And Personal use only