________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagers
Gyomandat
warraiwwwwwwwsreeronrwwwnwinnar
प्रेमेव जीवनं दीव्यं, स्वर्गश्च स्वर्गिणामिदम् । व्यापक सूक्ष्मरूपेण, प्रेमाऽस्तिसर्वदेहिषु।२३७॥ उन्मनीभावमापन्नाः, संसारोत्पथवर्तिनः।मुक्तये सन्तु सद्भक्ताः,शुद्धात्मप्रेमजीवनाः ॥२३८॥ प्रेमाविर्भावकृत्याय, शुद्धात्मप्रेमयोगिनाम् । कर्त्तव्या सङ्गतिः सर्व-स्वार्पणेन तदार्थभिः।२३६॥ स्वार्पणेन सदा सेव्यः,शुद्धात्मप्रेमिसद्गुरुः सद्गुरुशिष्ययोरैक्यं, प्रेमैव ज्योतिरात्मनामा२४०। यस्याये कामदेवस्य, बलं नश्यति तत्क्षणम् ।आविर्भवतु तत्प्रेम, येन स्यात् प्रभुदर्शनम्॥२४१।। शुद्धप्रेम महाज्योतिः, परब्रह्मैव केवलम् । तेजस्सु तन्महातेज-एकं विश्वस्य शासकम् ।।२४२॥ कायनाशोऽस्ति सत्प्रेम्णा, पूर्णसत्यंवदाम्यहम्। काम्येभ्यो दूरवासेन, नास्ति कामस्य संक्षयः॥ ब्रह्म पश्यतिसत्प्रेम, कामस्तु देहरूपताम्।सत्प्रेम्णा वर्त्तते शान्तिः, कामात्तु दुःखराशयः२४४
आत्मसु प्रेमसाम्राज्य, देहे कामस्य च स्फुटम्। आत्मप्रेम्णारसानन्दः, कामेन दुःखकोटयः२४५ कामात्मा तु पशु यः, प्रेमात्मा तु पशोः पतिः। पशुपतिर्महादेवः, केवलज्ञानलिङ्गवान् ॥२४६॥ कामरागसमं दुःखं, नैवभूतं भविष्यति । चिन्तनाद्धरते चित्तं, कामभोगस्य का कथा ॥२४७॥ कामभोगस्य चिन्तातः, कामिनां दुःखकोटयः ।देहादीनां च नाशोऽस्ति, मनुष्याणां परस्परम्॥
[२१]
For Private And Personal use only