________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandat
[२२] काम एव महामृत्युः, सत्प्रेमवास्ति जीवनम् ।मेरुसर्षपयोस्तुल्य-मन्तरं प्रेमकामयोः ॥२४॥ सर्वान्तर्यामि सत्प्रेम, प्रभुरेवहदि स्थितम्। परब्रह्म परं पूज्यं, क्षायिक सच्चिदात्मकम् ॥२५०॥ शुद्धनिश्चयसत्प्रेम, शुद्धात्मैव न भेदता। वीतरागो रसेन्द्रं तं, याति निश्चयबुद्धितः ॥२५१॥ ब्रह्मविष्णुमहेशाद्याः, कर्मप्रकृतिसंश्रिताः।शुद्धात्मदिव्यसत्प्रेम, वाञ्छन्ति पूर्णभावतः॥२५२॥ शुद्धप्रेममयं पूर्ण, कर्मातीतं रसं परम्। प्रकृतेः पारगन्तारो-यान्ति शुद्धात्मभावतः ॥२५३॥ प्रेमिणां चक्षुषि प्रेमी, तथा निद्रा न चक्षुषि। जाग्रद्धृत्कर्णयोः प्रेम, तेषां सर्वमलौकिकम् २५४॥ ध्येयरूपप्रभुप्रेमी, सोऽहं सोऽहं भजेद्धृदि। श्वासोच्छ्रासैः सदा हंसो-जप्यते तेजसां निधिः२५५ प्रेमिणां प्रमिभिर्दत्तं, प्रियं भवति सर्वथा।प्रेमिणां जन्मवासादि, प्रियं भवति स्वात्मवद् ॥२५६ ।। अग्नेरपिमहानिर्यद्-जलादपिमहाजलम् । पृथ्व्या अपि महापृथ्वी, वायुयोर्महानपि ॥२५७ आकाशतो महाकाशं, प्रमिषु प्रेम बोधत। यस्य सत्ताप्रभावेण, सर्व विश्वं प्रवर्तते ॥२५८॥ मैत्रीप्रमोदमाध्यस्थ्य-कारुण्यभावनाःशुभाः।प्रमिणां प्रेमसिद्धास्ता-वर्त्तन्ते विश्वशांतिदाः॥ प्रमिणमन्तरानैव,स्थीयते प्रमिणा कदा। प्रेमिणमन्तरानैव, जीव्यते प्रेमिणा कदा ॥२६॥
A AAAAR
SanAmAR MARRRRRIA
For Private And Personal use only