________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
श्रात्मिकं मानसं प्रेम, जायते ज्ञानचक्षुषाम् । ततो दिव्यसुखास्वादा - दवधूतो भवेज्जनः ॥ ५४६ ॥ - स्वर्गएवाऽस्ति सत्प्रेम, यत्रतत्र मनीषिणाम् । सत्प्रेमतो विहीनानां श्वभ्रमेवगृहं वनम् ॥५५०॥ शुद्धप्रेमविना यस्य, मनोराज्यं प्रवर्त्तते । विश्वराज्यस्य संप्राप्तौ तस्य शान्तिर्न जायते ॥ ५५१ ।। यावद् भौतिकभावेषु, दृढरागोऽभिजायते । तावत् शुद्धात्मसत्प्रीते- रधिकारो न संभवेत् । चमा पृथ्वीस्वरूपास्ति, सत्यप्रेम विभावय । जलं शान्तिस्त्ररूपं तत्, सत्यप्रेम हृदि स्मर ॥ ज्ञानं वह्निस्वरूपं तत्, सत्यप्रेम जगत् प्रभुः । रागादिकर्मणां भस्म - सात्करोतिमनीषिणाम् । ध्यानं वायुस्वरूपं तत्, सत्यप्रेम महाविभुः । जीवति नैव जीवोऽपि यं विनात्मस्वभावतः । ५५५ । आत्माकाशस्वरूपोऽस्ति, व्यापक प्रेम बोधत । भूतरूपकसत्प्रेम, तत्प्रतीकं जगत् सदा ॥ आत्मभास्करसत्प्रेम, तथात्मचंद्ररूपकम् । तारकासंख्यरूपेण, सत्प्रेमात्मा स्वयंसदा । ५५७ | सह्यन्ते ऽनन्तदुःखानि, सत्य प्रेमबलाज्जनैः । श्रात्मनोऽनन्तसामर्थ्यं, शुद्धप्रेम्णा प्रकाशते ॥ सर्व जातीय विद्यायाः, प्रेमशक्ति प्रदर्शकम् । स्वातन्त्र्य रक्षकं प्रेम, तदभावे हि शून्यता । ५५६ । यत्रप्रेम भवेत्तत्र, मरणं जीवनंसमम् । सर्वाशाजीवनं प्रेम, यत्रतत्र प्रयत्नता ॥ ५६० ॥
1
[ ४७ ]
For Private And Personal Use Only