________________
Acharya Shri Kailassaga suri Gyanmandir
Shri Mahavit
www.kobatrth.org
in Aradhana Kendra
[४८ ] सर्वविश्वकसाम्राज्यं, शुद्धप्रेम्णः प्रवर्त्तते । यस्याने कालचक्रस्य, भयं किञ्चिन्न वर्तते ॥ शुद्धप्रेमी स्वमंतव्ये, प्राप्नोति न पराभवम् । प्रेमसंस्कारसामर्थ्यात् , कार्यसिद्धिकरो भवेत्॥ प्रेमागे हि गिरीन्द्रोऽपि, कम्पते नास्ति संशयः। अशक्यमपि सत्प्रेमी, करोति सर्वथा भुवि॥ महावीरोपरिप्रेमि-लोकानां सर्वसिद्धयः । शीघ्रं भवन्ति सर्वेषां, तत्रकिञ्चिन्न संशयः ॥५६४॥ शूरैरवाप्यते प्रेम, निर्बलेनैव लभ्यते। धर्म्यकामस्यभोगोऽपि, शुद्धप्रेम्णालयं व्रजेत् ॥५६५।। सत्यप्रामाण्यसद्भाव-स्वार्थत्यागपरार्थतः। विशुद्धप्रेमदिव्यात्मा. प्राप्यते भव्यमानवैः ।। आगतस्वागतं प्रेम्णा, सत्कारात्मनिवेदनम् । प्रणिपातादिकं दिव्यं, जायते भक्तयोगिनाम् । अन्तर्यामिप्रभुं साक्षात् , दृष्ट्वा सर्वत्र देहिषु। तेषां पूजाच सत्सेवा, प्रेमभक्तै विधीयते।५६८। सत्यप्रेमविना लग्नं, कल्पते न द्वयोः कदा। कायलग्नमपि प्रेम, विना न नरयोषिताम् ॥ ५६९॥ आर्याणां प्रेमशुद्धत्वं, प्रामाण्यं तद्बलाद्भवेत् । आत्मनां गुप्त सज्ज्ञानं, शुद्धप्रेम्णा प्रकाशते॥ सूर्योदयेन पद्मानां, विकासोऽस्ति यथा भुवि। तथाचित्तविकासस्तु, नृणां प्रेमिसमागमात् ।। अभेदप्रेमयोगेन, मनुष्याणां परस्परम् । अद्वैतं जायते पूर्णं, सापेक्ष निरपेक्षकम् ॥५७२॥
For Private And Personal Use Only