________________
Shri Mahavir Jain Aradhana Kendra
www.kobairthorg
Acharya Shri Kailassagarsuri Gyanmandir
आन्तरं मानसं प्रेम, तथात्मिकं चिदात्मकम्। कायाद्युपाधिभेदेन, बाह्यं हि क्षणिकं स्मृतम् ५७३ अशुभं च शुभं ज्ञेयं,मानसं प्रेम मानवैः। शुभं स्वर्गादि सौख्याय, श्वभ्रायचाशुभं स्मृतम् ॥ आत्मिकं प्रेम मोक्षाय, बाह्य दुःखाय देहिनाम् । आत्मिकं मानसं बाह्यं, प्रेमसापेक्षबुद्धितः॥ महावीरस्य जैनानां, परस्परसमागमे। अपूर्वानन्दसंप्राप्ति-र्जायते भक्तियोगतः ॥५७६॥ महावीरोपरिप्रेमि-जैनानां हि परस्परम् । जीविका व्यवहारेण, साहाय्यं सर्वथा भवेत् ॥ शुद्धप्रेमामृतं पूर्णं, सच्चिदानन्दजीवनम् । अहमेव त्वमेवास्मि. मत्त्व दो न भासते॥५७८॥ क्रोधक्लेशविनाशेन, मैत्रीभावस्य जीवनम् । सर्वधर्मस्य सन्मूलं, शुद्धप्रेम प्रजायते ॥५७६ ॥ ज्ञानेनोत्पद्यते प्रेम, निःस्वार्थेन प्रवर्धते । विश्वसेवाफलं शीघ्रं, प्रेमवृक्षस्य जायते ॥ ५८०॥ प्रेममेधेन सिञ्चन्तु, जीवा विश्वद्रुमावलिम्। प्रेमात्मवायवो वान्तु, विश्वोद्यानेषु सत्त्वरम् ।९८१॥ विश्वविश्वासयोगेन, स्नानं कुर्वन्तु सजनाः। निमजन्तु च भावेन,शुद्धप्रेमात्मवारिधौ ।५८॥
आत्मपाथोधिरूपस्त्वं,शुद्धप्रेमाऽस्तु जीवनम् ।त्वयि मृत्युर्नकस्याऽपि,मृत्युः पुद्गलपर्ययः।५८३॥ विश्वं विकासते प्रेम-रसयोगेन सर्वदा। आत्मरूपं जगत् सर्वं, तस्य प्रेमविकासनम् ॥८॥
[४९]
For Private And Personal use only