________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५० ]
पशुपक्षिगणेष्वेव, वनस्पत्यादिषु स्फुटम् । मानवदेवलोकेषु, प्रेमज्योतिः प्रकाशते ॥ ५८५ ॥ पशुपक्ष्यादिगीतेषु, सत्प्रेमात्मा विलासते । प्रेममाधुर्यसाम्राज्यं, स्वर्गादिशर्मरूपकम् ॥ ५८६॥ सर्वजीवाधिदेवत्वं, प्रेमविश्वस्य जीवनम् । त्वयि विश्वस्य कर्तृत्वं, भासते त्वत्स्वभावतः । ५८७॥ परब्रह्म महावीर ? त्रैलोक्यजीवजीवन ? । शुद्धप्रेमस्वरूपं श्री - जैनधर्मं समर्पय ॥ ५८८ ॥ पूर्णानन्दरसोऽसि त्वं, सर्वजीवान् प्रफुल्लय । शुद्धप्रेमरसाब्धे ? त्वं, शुद्धप्रेम समर्पय ॥ ५८६ ॥ शुद्धप्रेम रसाद्वैतं वर्त्तते जैनशासनम् । एकोऽप्यनेकधारूप- स्त्वमेवैकजगत्प्रभो ? ॥। ५९० ।। यद्यत् क्षणिकरूपं तत्, प्रेमाधारो न विद्यते । नित्यात्मा शुद्धबोधादि - प्रेमाधारो निगद्यते । ५६ १ ॥ सदेवात्माऽस्ति विश्वस्य, ज्ञायकश्च प्रशासकः । आत्मभिन्नमसद्द्रव्यं, जडमेवास्ति सर्वथा । ५६२ ॥ सदात्मा प्रेमपाथोध-रनन्तज्ञानवान्महान् । यत्र प्रेम भवेत्तत्र, रसः सज्योतिषां सदा ॥ ५६३॥ सत्प्रेमी पूर्णतामेति, पूर्णः पूर्णेन पूर्यते । शुद्धात्मनि सदा सन्ति, पूर्णस्य कारकाणि षट् । ५६४ प्रेमशब्देन वाच्योऽस्ति, सदात्मा विश्वपर्यवी । शुद्धप्रेमैव शुद्धात्मा, ज्ञानज्ञेयस्वरूपवान् । ५६५॥ प्रतिष्ठाया भयं नास्ति, यस्य कीर्त्तेर्भयं तथा । तस्य प्रेमरसावाप्ति- र्भवेत्तत्र न संशयः ॥ ५६६ ॥
For Private And Personal Use Only