________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
amanamannamannmaniawww
स्वर्गलोकं गते सूरौ, निष्प्रभेव वसुन्धरा । संघलोकाश्च संजाता-वेदनाव्यथिताशयाः ॥१०५॥ दानानि विविधान्यासन् , दानवीरकृतानि च । दुःस्थिता दुःखसंत्यागं, विधाय मेनिरे सुखम् ॥ १०६ ॥ जिनचत्येषु सर्वत्र, विहिताष्टाह्निकोत्सवाः । महेभ्या गुरुसद्भक्त्या, धर्मकर्मरता बभुः ॥ १०७॥ समाधिमन्दिर तत्र, भव्यं संस्कारभूतले । कारयामास सकलः, संघः सद्गुरुसेवया ॥ १०८ ॥ मृत्तिः प्रतिष्ठिता तत्र, स्वर्गिणां चित्तहारिणी । महामहोत्सवं कृत्वा, संघकल्याणहेतवे ॥१०९॥ सूरीश्वरकृता ग्रन्था-अष्टोत्तरशताधिकाः । विलसन्ति सुभव्यानां, चिचेषु नितरां शुभाः ॥ ११० ॥ बुद्ध्यब्धिसूरिवर्यस्य, चरित्रं भूरिविस्तरम् । संक्षेपादिदमाचख्ये, सारभूतं तथाऽपि वै ॥ १११ ॥
भव्याम्भोजैकभानोः प्रथितगुणचयं चित्रमेतच्चरित्रं,
सूरीन्दोवुद्धिसिन्धोश्चरणकजरतोऽध्यात्मविद्यासु लीनः । श्रीमानाचार्यवर्योऽजितसरिदधिपो निर्ममे भक्तिनमः,
अध्यात्मज्ञानभूतिर्षिकसति विमला यत्प्रभावाजनेषु ॥ ११२ ॥
१ गुरुमूतिः २ सागरः.
For Private And Personal use only