________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[4]
॥ ९४ ॥
रिपदस्य योग्योऽयं, पन्न्यासपदवीधरः । अजितोदधिरस्तीति, गीतार्थगुणसंभृतः ॥ ९१ ॥ विदित्वा सूरिया तस्मै, निजशिष्याय धीमते । व्योमसिद्धिनिधिमा (१६८०) युक्, वत्सरे बैक्रमे शुभे ॥९२॥ माघशुक्लदशम्यां च गौ सूरिपदं ददे । प्रवर्तकपदं चैव मुनिश्री - ऋद्धिसिन्धवे ॥ ९३ ॥ विशेषकम् ॥ ततोऽगात्सूरिवर्यः स - विद्यापुरमनन्यधीः । उपदेशसुधावृष्ट्या, भव्यावनीम सीषिचत् गुरूपदेशतः संघ, स्तत्रत्यो धृतसंमदः । विहितज्ञानसद्भक्ति-निर्ममे ज्ञानमन्दिरम् ॥ ९५ ॥ निजायुः शेषकं ज्ञात्वा, सूरीशः स विदांवरः । ग्रन्थाँश्विकिर्षितान् पूर्वी - चकार क्रमशः समान् ॥ ९६ ॥ विहरन्मधुपुर्या स जगाम सूरिपुङ्गवः । महेम्यान योजयामास धर्मकर्मणि बोधयन् ॥ ९७ ॥ जैन चैत्योद्धति कृत्वा, प्रतिष्ठोत्सव पूर्वकम् । घण्टाकर्णमहावीर, -स्थापनां कृतवान् सुधीः ।। ९८ ।। आसन्नमरणं ज्ञात्वा, तत्रैव तस्थिवान् पुरि । ज्ञानध्यानसमाधिस्थः कियन्तं कालमत्यगात् ॥ ९९ ॥ विद्यापुरं पुनः प्राप्य, श्रीसंघाग्रहतः स्वयम् । सूरीशोऽनशनं भेजे, श्रेयः श्रेणीसमीहया ॥ १०० ॥ भूसिद्व्यङ्कघरायुक्ते (१६८१) वैक्रमाब्दे शुभे शुंचौ । कृष्णपचे तृतीयायां, प्रभाते भौमवासरे ॥ समाधिना श्रियं भेजे, कृतनिर्यामणाक्रियः । स्वर्गियां जैनसिद्धान्तं प्रदातुमिव सच्चरम् ॥ देशान्तरीयलोकानां, संहतिस्तत्र संगता | श्रुत्वा निर्यामयांसूरे-गुरुभक्तिसमाहृता ॥ चन्दनागुरुकाष्ठानां, रचिता महती चिता । सूरीशदेहसंस्कारो विहितः संघसज्जनैः ॥ १ महुडी. २ ज्येष्ठे.
१०१ ॥
For Private And Personal Use Only
१०२ ॥
१०३ ॥
१०४ ॥