________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
भावनाप्रेमसामर्थ्य, बीजरूपं प्रबोध्यते । सर्वसेवाप्रवृत्त्या तु, फलरूपं प्रजायते ॥ ६२१ ॥ वार्तारूपं तु यत्प्रेम, तत्तुभावस्य कारणम् । भावनाप्रेमपाकेन, कार्य प्रेम प्रजायते ॥६२२॥ सर्वकर्तव्यकार्येषु, यस्य प्रेम भवेद् दृढम् । तस्य कार्यस्वरूपेण, सत्यप्रेम निगद्यते ॥६२३॥ अधिकारोऽस्ति कार्येषु. दिव्यप्रेमात्मनां सदा। कामस्वार्थादियुक्तानां, तत्रास्ति नैव योग्यता॥ दिव्यप्रेमी भवेजैनो-धर्म्यलग्नादिकर्मठः।आत्मनां पूजकः पूर्णो-जडस्य न च पूजकः ॥६२५॥
आत्मानमन्तरा कोऽपि, प्रेमरूपो न बोध्यते। ज्ञानिना ज्ञानयोगेन, ज्ञायते सर्वदा खलु ॥६२६॥ पिण्डब्रह्मांडकार्येषु. दिव्यप्रेम विलोकते।आत्मभावेन दिव्यात्मा, यत्र तत्र यदा तदा ॥६२७॥ खण्डनं मण्डनं नैव, न च तर्कविवादता।शुद्धप्रेमणि भक्तानां, दृश्यो वीरो जिनेश्वरः ॥६२८॥ परब्रह्म महावीर-एकएव महाप्रभुः । प्रेमिणां सर्वथाऽऽधारः, कलौ प्रेम्णैव तारकः ॥६२६॥ सर्व विश्वमयं वीरं, जानाति तस्य वीरता। वीरस्य प्रेममात्रेण, कलौ मोक्षोऽस्ति देहिनाम् ।। परब्रह्म महावीरे, प्रेमधारणमात्रतः। कृत्स्नकर्मक्षयो मोक्षो-भवेत् तत्र न संशयः ॥ ६३१ ॥ सम्यक्त्वस्य रुचिःप्रेम, भाषितं तीर्थ नायकैः। कलौ वीरस्य प्रेम्गौव, निष्कर्मो जायते जनः॥
For Private And Personal use only