________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassage sur Gyanmandir
[५२] अन्तरात्ममहावीर-साकारस्य कलौ सदा। जापः स्मृतिश्च सत्यूजा,कर्तव्या प्रेमतानतः ।६०६। सर्वजीवैः सहाऽभेद-आत्मनः सर्वथा यदा। तदा स्वयं महावीरो-भक्त्यात्मा जायते खलुा६१०॥ भावेषु विद्यते वीरो-नाभावेषु कदाचन । आत्मभावानुसारेण, भवेद् वीरः फलप्रदः ॥६११ ॥ महावीरोपरिप्रेमि-लोकानां सर्वसंपदः । जायन्ते पुत्रपौत्राद्या-स्तत्र किञ्चिन्न संशयः ॥६१२॥ महावीरोपरिप्रेमि-लोकानां पूर्णभक्तितः। विद्यासत्तादितः पूर्णा, समुत्क्रान्तिर्भवेत्सदा ॥६१३॥ महावीरोपरि प्रेम, यस्य पूर्णं भवेत् खलु। तस्योपरि महावीर-कृपा पूर्णा सदा भवेत् ॥६१४॥ महावीरोपरिप्रेम-जैनानां पशुपक्षिषु।समाजे च भवेत्सेवा, वित्तादिस्वार्पणात् सदा ॥६१५॥ जैनानामुपरिव्यक्त-प्रेमिजैना भवन्ति ये। महावीरपदं यान्ति, परस्परसहायतः ॥६१६॥ उद्धारो नास्ति विश्वस्य, जैनधर्माश्रयं विना। महावीरसदाझैवं, प्रेम्णा सर्वत्र गर्जति ॥६१७॥ महावीरोपरि प्रेमि-जैनाः शौर्यादि संयुताः।प्राणादि सर्वनाशेऽपि, भ्रष्टा भवन्ति नो कदा ६१८ अन्य धर्मोपदेशेऽपि, मिथ्यागुरुसमागमात् । महावीरस्य विश्वासात् , चलन्ति कर्हिचिन्न ते॥ महावीरस्य सत्प्रेमा, कन्यावित्तादिलोभतः। तथान्यरागयोगेन, न जैनेन्द्रं गुरुं त्यजेत् ॥६२०॥
For Private And Personal use only