________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
K
AJALA
[.] शुद्धप्रेमरसास्वादे, कृते निर्भयताऽऽत्मनि । जायतेऽनुभवःसाक्षा-देवते प्रेमयोगिभिः॥३३॥ लोकसंज्ञामपाकृत्य, शास्त्रसंज्ञां तथा पराम् । शुद्धप्रेमणि संखीनः, प्रेमवानाजते सदा ॥३४॥ सत्यप्रेमिजने कृत्वा, नामरूपसमर्पणम् । उन्मनीभावमारुह्य, प्रेमी शुद्धात्मतांश्रयेत् ॥३५॥ निर्विकल्पं परब्रह्म, शुद्धप्रीत्याऽनुभूयते।अशुद्धाःप्रेमसंबन्धा-यत्र यान्ति लयं ध्रुवम् ॥३६॥ शुद्धसिद्धात्मदेवस्य, प्रत्यक्षं दर्शनं भवेत्। निर्विकल्पमहाप्रेम-योगेन प्रेमयोगिनाम् ॥३७॥ सत्यप्रेमणि संप्राप्ते, शङ्का नास्ति परस्परम् । देहवित्तादिसंमोहो-यत्र तिष्ठति नो कदा॥३८॥ सत्यप्रेम विना लग्नं, जायते न परस्परम् । कायलग्नमहत्ता तु, यत्र किञ्चिन्न विद्यते ॥३६॥ प्रेम्णस्तु मौनभावोऽस्ति,हृद् द्वारेण प्रकाशतेोदिव्यप्रीत्या प्रतिज्ञाया-अभावोऽस्ति निसर्गतः४० सत्यप्रीत्याञ्चयात्राऽस्ति,भेदायाःसन्ति नो हृदि। आज्ञांबिनाभवेत् कृत्यं, द्वेषाद्यायान्तिनष्टताम् शाम्यति नैव वैरेण, वैरंप्रत्युत वर्द्धते।प्रेम्णैव वैरनाशोऽस्ति,सर्वथा प्रत्ययः सताम्॥ ४२ ॥ शुद्धप्रेमिमहावीर-देवेनाऽहिः प्रबोधितः । करा अपि क्षमा यान्ति, शुद्धप्रेमप्रभावतः ॥४३॥ दुष्टवैरिजने येतु, कुर्वन्ति प्रेमभावनाम् । प्रान्ते संत्यज्य वैरं ते, भवन्ति प्रेमबन्धवः ॥४॥
For Private And Personal use only