________________
Shri Mahavir Jain Aradhana Kendra
www.kobairthorg
Acharya Shri Kailassages sur Gyanmandit
प्रेमशक्तिसमा शक्ति-रपरा न जगन्नये । प्रेमाकर्षणयोगेन, स्वकीयं जायते जगत् ॥४५॥ राजसं तामसं प्रेम, सात्त्विकं च निबोधत।सात्त्विकं हृदि संधृत्य, पूर्णानन्दं भजस्व भोः?॥४६॥ प्रतिदानस्य संकल्पो-जायते न कदाचन । उच्चनीचादयोभेदा-लयं यान्ति समत्त्वतः ॥४७॥ प्रतिज्ञापालनं पूर्ण, प्रेम्णैवजायते सताम् । निरवधिमहाप्रेम, पूर्णब्रह्म सदुच्यते ॥ ४८ ॥ पर्णप्रेम परब्रह्म, पूर्णज्योतिर्मयः स्वयम्। निर्विकल्पात्मनावेद्यो-विरागेण निजात्मनि॥६॥ अज्ञानिना न संवेद्यः, संवेद्यः प्रेमयोगिना । शुद्धप्रेममयं ब्रह्म, स्वेनानुभूयतेस्वयम् ॥५०॥ परब्रह्म परंज्योति-महावीरोजिनेश्वरः। स्वयमात्मा वपुःस्थोऽयं,शुद्धप्रेम्णा प्रकाशते॥५१॥ भाकर्षकं महाप्रेम, सर्वग्रहप्रवर्तकम् । लयसर्गकरं प्रेम स्वयं स्वेनानुभूयते ॥ ५२॥ शुद्धात्मा श्रीमहाब्रह्म, प्रेम्णैव व्यज्यतेप्रभुः। ब्रह्मविष्णुमहेशानां, पूर्णप्रेमनियामकः ॥५३॥ व्यापक सूक्ष्मरूपेण,प्रेमैव स्वान्तरप्रभुः। अविश्वासोन यत्राऽस्ति, निश्चय प्रेमत स्वयम्॥५४॥ धूर्तानां प्रेमचेष्टासु, सत्यप्रेम न विद्यते।नास्तिकैर्मूढलोकैश्च,सत्यप्रेमी न वञ्च्यते ॥५५॥ प्रेम परीक्ष्यते प्रेम-योगिना परया विदा। परायां भासते सत्यं, सत्यप्रेम्णैव सद्धृदि ॥५६॥
For Private And Personal Use Only