________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
सेवाभक्ति भवेत् प्रेम्णा, वैयावृत्यं तथा शुभम्। प्रवृत्तीनां महामन्त्री, निवृत्तीनां तथा ध्रुवम् ॥ धर्मप्रचारकं प्रेम, सर्वजातीयजीवनम्। जीवेत् प्रेम विनानैव,जैनधर्मः सनातनः ॥ ५ ॥ धर्मरुच्यादिपर्यायाः, प्रेम्णोवाच्या विवेकतः।व्यभिचारादिलाम्पव्यं, काममोहोद्भवं खलु ।५९|| देहवित्तादिके स्वार्थे, सत्यप्रेम न संवसेत्। विद्यारूपादिके शुद्ध-प्रेमवासोन संभवेत् ॥३०॥ दुष्टकामो न यत्राऽस्ति, तत्र प्रेमप्रकाशता । धर्म्यप्रेम जगद्धर्म-स्थापकं सर्वशक्तितः ॥६॥ दोषाः सन्ति न सत्प्रीत्यां, नैवास्ति कामवासना।कामादयस्तुमोहेन, पुंवेदात्संभवन्ति यत्॥ पुवेदादिकमोहस्य, नाशोऽस्ति प्रेमशक्तितः।मनोवाकाययोगाना, पावित्र्यं प्रेमयोगतः ॥३॥ गुणानां दर्शनं यस्मा-दुर्गुणानां न कर्हिचित्।सद्गुणानांप्रचारोऽस्ति,तस्मात् प्रेम भजस्व भोः? प्रेम्णा शारीरमारोग्यं,शोकभीत्यादिसंक्षयः। प्रेम्णा प्रभुकृपासिद्धिः, सद्गुरूणां तथा भवेत्॥ प्रेम्णा क्लेशविनाशोऽस्ति, मनःसाम्यं भवेत् सताम् । सत्यप्रेम न यत्राऽस्ति, तत्रशुष्कं मनः खलु ज्ञानिनांप्रेम संबन्धः, प्राणान्तेऽपिनभिद्यते।देहवित्तादिनाशेऽपि, सत्यप्रेम न नश्यति ॥६॥ पूर्णदुर्भाग्यसंप्राप्तौ, मृत्युकालेऽपिसज्जनाः। सत्यप्रेम न मुञ्चन्ति, धूर्तकोटिप्रलोभनैः ॥८॥
For Private And Personal use only