________________
Shri Mahavir Jain Aradhana Kendra
www.kobato
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धप्रेमैव जीवानां, रक्षकोऽस्ति जगत्त्रये।शुद्धप्रेमविना नाऽस्ति, दयादानादि सस्क्रिया ।४२९॥ दुष्कृतानां विनाशाय, धर्मिणां रक्षणाय च।शुद्धप्रेम परिणामा-भवन्ति प्रेम योगिनाम्॥४३०॥ शुद्धप्रेम प्रभुः साक्षा-दन्तर्यामी प्रवर्तते।भक्तानां हृदि संवेद्यो-जैन धर्मः स उच्यते॥४३१॥ यावन्मृत्यु भयंचित्ते, तावत् सत्प्रेम नोप्रभौ।बाह्यानां ममता यावत् , तावद्वीरेनरागता॥४३॥ जैनधर्मे वरं मृत्यु-र्मा तत् त्यागेन जीवनम् ।शुद्धप्रेमी सविज्ञेयो-जैन धर्मार्थ जीवकः ॥४३३॥ कलौसरागधर्मोऽस्ति, त्यागिनां गृहिणां तथा।न्याय्यरागादिधर्मेण, भक्तानां मुक्तिमार्गता४३४ वीतरागोभवेन्नैव, कलौकोऽपि स्वभावतः। अतोदेवादिसेवायां, शुभारागादयः स्मृताः ॥४३५।। भक्तानां स्थूलबुद्धीनां, साकारस्थावलंबनम् । भक्तानां सूक्ष्मबुद्धीनां, शुद्धात्मालंबनं शुभम् ॥ भक्तानां नैवभेदोऽस्ति, वर्णादिर्बाह्यकल्पितः। महावीरमयाः सर्वे, शुद्धप्रेमाधिकारिणः ।४३७| मनोवशीकृतं येन शुद्धप्रेमीसभक्तराट् । जीवन्मूर्तिः प्रभुर्बोध्य-स्तत्सेवाऽर्हत्पदप्रदा ॥४३८॥ दयादानंदमःसत्य, श्रद्धौदार्य चशुद्धता। क्षमासाम्यं च निर्लोभो-माध्यस्थ्यं लघुता तथा॥ सौजन्यं च तपोधैर्य, साक्षित्वं सर्ववस्तुषु।शुद्धप्रेम्णा प्रजायन्ते, गुणाएते मनीषिणाम् ।४४०॥
[१७]
For Private And Personal use only