________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
[ ] विश्वोद्धाराय सत्प्रेम-प्रभुःस्थात् सर्वशक्तिमान् । खण्डदेश समाजाना-मैक्यं साधयति स्वयम् | शुद्धप्रेम न यत्राऽस्ति, तत्र पापतमो महत् । शुद्धप्रेम न यत्राऽस्ति, तत्राऽधर्म प्रवृत्तयः॥४१८॥ शुद्धप्रेम भवेद यत्र, तत्र व्यक्तःप्रभुःसदा। दयासत्यादि धर्माणां, तत्रवासोऽस्ति सर्वथा।४१६॥ शुद्धप्रेमविना शुष्कं, चित्तं सर्वमनीषिणाम् ।शुद्धप्रेम्णा जगत् सर्व-मात्मरूपं प्रभासते॥४२०॥ सर्वेषां हृदयैःसाई, भक्तानामेकता भवेत्। भक्तानां हृत्सुव्यक्तोऽस्ति, महावीरःप्रभुः सदा ४२१ ॥ पश्यन्तु प्रेमिहृत्स्वेवं, प्रभुवीरं जिनेश्वरम्। जाग्रत् प्रभुर्जनैश्यो-भक्तानां देहमंदिरे॥४२॥ | व्यक्त जाग्रत् परब्रह्म-जिनेन्द्रस्य सुभावतः। आरात्रिकं प्रकुर्वन्ति, प्रेमिण आन्तरंस्वतः॥४२३ विश्वस्थाल्यो रविश्चंद्रो-दीपकावेववस्तुतः। केवलज्ञानदेवेन्द्र-मभितो गच्छतः सदा ॥४२४॥ विश्वस्थाल्यां महातेजः, शुद्धप्रेमैवबोधत। देहस्थाल्यां भवेत् दीप-आत्मैव प्रेमजीवनम् ।४२५ परस्परंतु जीवानां, शुद्धप्रेमैव मंगलम् । भवेदतीव सन्धान-कारकं च मनीषिणाम् ॥ ४२६ ॥ शुद्धप्रेमात्म सद्भक्ता-दृश्या वीरस्य भावतः। तेषां पुण्यप्रवाहेण, सुवृष्टि (विमङ्गला ॥२७॥ संसारे वर्तमानस्य, महावीरे मनः सदा । यस्य स प्रेमभक्तोऽस्ति, निर्लेपः सर्ववस्तुबु ॥४२८॥
For Private And Personal use only