________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth og
Acharya Shri Kailassagarsuri Gyanmandit
शुद्धात्मप्रेमसामर्थ्यात् , क्षणिकेषु नरागता। तथात्मनो महावीरे, समाधिर्जायते स्वयम्॥४४१॥ लयंयान्ति महावीरे, मनांसि शुद्धरागिणाम् । स्वयं भूत्वा महावीरा-गच्छन्ति परमपदम्।४४२॥ त्यजन्तु स्वार्थसंबंधान् , भजन्तु भक्तयोगिनः।आत्मशुद्धिं प्रकुर्वन्तु, शुद्धात्मप्रेमयोगिनः ४४३| शुभाशुभं न दृश्येषु यदाकिञ्चिद् भविष्यति। तदा शुद्धात्मसत्प्रेमी, कर्मयोगी भविष्यसि ४४४ संप्रति विपरीतं त्वं, पश्यसि मोहचक्षुषा।शुद्धप्रेमणिसंजाते,सत्यं द्रक्ष्यसि सर्वथा ॥ ४४५ ॥ प्रेम्णस्तु वैखरीभाषा, नास्ति सर्वत्रबोधत।तथापि प्रेमभाषाऽस्ति, सर्वत्रैका परामिका॥ अन्तर्विशुद्धभक्तानां, जैनानां संगतिं कुरु। नास्तिकाऽधर्मिपापानां, सर्वथा संगतित्यज।४४७॥ शुद्धप्रेमणि विक्षेपं, कर्तृणां संगतित्यज । शुद्धप्रेमविहीनानां, ग्रन्थानां वाचनां त्यज॥४४८॥ कुरु सर्वत्र सत्प्रेम, स्वार्थमोहं निवारय । शुद्धप्रेम्णा महावीर-जापं कुरु प्रतिक्षणम् ॥४४॥ गुर्वाज्ञां मस्तके धृत्वा, सर्वं तस्मै समर्पय। सद्गुरुदेवसेवायां, निःशङ्को भव सर्वथा ॥४५०॥ भवे मुक्तौ च सर्वत्र, समत्वं यस्य जायते । पूर्णशुद्धात्मसत्प्रेमी, कुत्राऽपि नैव लिप्यते ।४५१॥ शाब्दिकतार्किकग्रन्थ-कोटिपाठेन किंफलम् ? किं तत्त्वशास्त्रपाठेन ? महावीरं सदा भज।४५२॥
For Private And Personal Use Only