________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
communner-rrrrrrrrrrrrr-~
~
समाख्यं शुद्धचारित्रं, धर्मलग्नं मनीषिणाम् ।मोक्षार्थं जायते नूनं, शुद्धप्रेम निवासिनाम् ॥३०९। ॐ ह्री श्री क्ली परप्रेम, प्रियेषु मम वर्धताम् ।वैरिणामुपरिप्रेम, वर्धा मम शक्तितः ॥३१०॥ वर्धतां मम मित्रेषु, शत्रुषु प्रेम वेगतः । सर्व देशेषु खंडेषु, शुद्धप्रेम प्रवर्धताम् ॥ ३११ ॥ शुद्धप्रेम्णा पराशान्ति-भूयात् सर्वत्र सात्विकी। द्रष्येष्वपि परप्रेम, वर्धतां मम भावतः॥३१२॥ परप्रेममयं विश्व, भूयात् संकल्पशक्तितः । प्रादुर्भवतु सत्प्रेम, मयि सर्वेषु सर्वथा ॥ ३१३ ॥ शुद्धप्रेमसमावेग-दृढसंकल्पभावनाः। जनोपरि प्रकुर्वन्तः, कुर्वन्ति प्रमिणो जनान् ॥३१४।। नृणांशीर्षोपरिप्रेम-मंत्रजापक योगिनः।वशीकुर्वन्ति सत्प्रेम्णा, सर्वलोकान् विवेकतः॥३१५॥ मदीयप्रेमदायेन, मद्रूपाः सन्तुदेहिनः। दूरं यातु महावैरो-मत्तश्च सर्वविश्वतः ॥ ३१६ ॥ शुद्धप्रेम विना जीवः, पशुरेव न संशयः। शुद्धप्रेमात्मनां नृणां, देवत्वं परिकथ्यते॥३१७॥ प्रेम्णा सर्वात्मनामेको-विश्वात्मा परमेश्वरः।आत्माऽद्वैतस्वरूपेण, कथ्यते नययुक्तितः ॥३१॥ सत्यद्वैतमपिव्यक्त-मात्माऽद्वैतेलयं व्रजेत्। ज्ञानेज्ञेयस्य भास्यत्व मात्माद्वैत मनादिकम् ।३१६॥ सोऽहनेवभवेत् साऽह-मद्वैतप्रेम्णि संस्थिते। जन्ममृत्युर्जरानैव, निर्विकल्पक योगिनाम्।३२०॥
[२५]
-~-newwwwwwwwwwn
wwwmnind
For Private And Personal use only