________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
| २६ ]
राजसानां समं लग्नं, राजसं परिकीर्त्तितम् । तामसानां समं लग्नं, तामसं परिकीर्त्तितम् ॥ २६७॥ सात्विकेन समं लग्नं, सात्विकस्य सुरवातये । गुणकर्मानुसारेण, वर्णानां लग्नमिष्यते ॥ २६८॥ लग्नं समानवर्णानां, वयः साम्यादितः स्मृतम् । देहलग्नं च दंपत्यो-रध्यात्मं प्रेमयोगतः ॥ २९९ ॥ माहारेण विचारेण, राजसादिक साम्यतः । लग्नमाध्यात्मिकं बाह्यं, दंपत्योः सर्वशक्तये ॥ ३००॥ लग्नं प्रेमविना नैव, घटते नरयोषिताम् । भूमिकां पञ्चमींयावद्, दंपत्यो लेग्नमिष्यते ॥ ३०१ ॥ रोगदोषाद्यभावेन, पक्ववीर्यादितस्तथा । प्रेमादिगुणयोगेन, लग्नं हि नरयोषिताम् ॥ ३०२ ॥ धर्मदेशप्रगत्यर्थ-मित्थं लग्नं समानकम् । कल्पते नरनारीणां, धर्मप्रेमविधायकम् ॥३०३॥ दुष्टविक्रयलग्नेन, पुरुषाणां च योषिताम् । धर्मसंघ बलादीनां नाशः स्यान्नैव संशयः॥३०४॥ लग्नमावश्यकं ज्ञेयं प्रजोत्पत्यादिहेतुभिः । अन्यथा देहलग्नंतु, कल्पते नैव देहिनाम् ॥ ३०५ ॥ कल्पते प्रेमिलोकाना -मात्मलग्नं परस्परम् । देहभोगो न तत्रास्ति, सद्गुणानां प्रचारता ॥ ३०६ ॥ आत्मप्रेमैवलग्नाय, कल्पते नरयोषिताम् । आत्मलग्नंतु सर्वेषां कल्पते प्रेमदेहिनाम् ॥३०७॥ देवलग्नं गुरोर्लग्नं, शुद्धप्रेम्णा प्रकल्पते । भक्तानां नरनारीणां मुक्तये धर्मभावतः ॥३०८॥
For Private And Personal Use Only