________________
Acharya Shri Kailassagersuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शुद्धप्रेम जगत्स्वामी, कोऽपिनास्ति च तत्समः। प्रिय आत्मा प्रभुर्देवः, प्रिय एव जगत् प्रभुः॥ आत्माग्नौ प्रेमिणो भक्ता, पतन्तिशलभाइव। कुर्वन्ति भस्मसात् देहान्, गच्छन्ति परमां गतिम् | यत्रतत्राऽपि सत्प्रेम्णा, प्रभुमत्वा विवेकिभिः। कर्त्तव्यं तन्मयं चित्तं, ततो व्यक्तःप्रभुर्भवेत्॥ शुद्धप्रेम महायोगो-यस्य वीरोपरिस्फुटः।समाधिस्तस्य भक्तस्य, यत्र तत्र निरन्तरम । ५२८ । शुद्धप्रेम महायोगो-यस्य शुद्धात्मनः सदा। वर्तते तस्य भक्तस्य-समाधिः स्यादहर्निशम् ५२९ सर्वेषां धर्मिणां धर्मः, सत्प्रेमैव महीतले।सर्वधार्मिक लोकाना-मैक्यं सत्प्रेमतो भवेत्॥५३०॥ जातिलिङ्गादि भेदानां, नाशःप्रेम्णा प्रजायते। सर्वात्मनां भवेदैक्यं शुद्धप्रेमरसा ध्रुवम् ५३१ अनेकान्तनये ज्ञाते, शाश्वते जैनशासने। अनेकान्तमहाप्रेम, जायते भेदनाशकम् ॥ ५३२॥ आत्मरूप महावीर-प्रियस्य पूर्णरागतः। गेयानि सर्वगानानि, सर्ववाद्यैर्जनैः खलु ॥५३३॥ आत्मतानस्य गानेन, तन्मयोगायकोभवेत्। हर्षोल्लासस्ततोवीर-दर्शनं जायते स्फुटम्॥५३४॥ परिणीतपतिर्नार्या-व्यवहारनयात्मतः। परब्रह्म महावीरः, सर्वेषामान्तरः पतिः ॥५३५॥ प्रेमशास्त्रस्य पाठेन, शुद्धप्रेम न जायते । प्रेमिणां संगतेः प्रेम, जायते पूर्णनिश्चयः ॥५३६॥
[४]
For Private And Personal Use Only