________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४४ ]
धर्माकर्षणयोगेन, आत्मा कृष्णोभवेत् स्वयम् । निजात्मा वासुदेवोऽस्ति, महावीरः स्वर्यितः गोप्यस्तुवृत्तयः सर्वा - स्तासामन्तः प्रपालकः । गोपालः सर्वथात्मैव, न च देहो विनश्वरः ॥ ५१४॥ वज्रादपि कठोराणि, हृदयानि मनीषिणाम्। मृदूनि पुष्पवच्छीघ्रं भवन्ति प्रेमशक्तितः ॥ ५१५ ॥ निष्ठुरस्यापि कारुण्य-मज्ञस्यापि प्रकाशता । सर्वात्मसु च सौन्दर्य, शुद्ध प्रेमामृताद् भवेत् ॥ आस्तिक्यं नास्तिकस्यापि, शुष्काणामार्द्रता हृदि । शुद्धप्रेमामृतस्वादाद्, जायते स्वीयभक्तितः यस्यात्मा प्रेमरूपोऽस्ति, तस्य प्रेममयं जगत् । प्रेमात्मा यः स्वयं नास्ति, तस्य शून्यं जगद् भवेत् । मानवेन्द्राः सुरेन्द्राश्च, दानवाश्चक्रवर्तिनः । वराका इव विज्ञेयाः, शुद्ध प्रेमामृतं विना ॥५१६ ॥ सात्त्विकप्रेमसाम्राज्यं, यस्य जीवनताभृतम्। तस्याग्रे निष्ठुर स्वार्थ - दोषा जीवन्ति नो कदा ॥ आत्मप्रेम भवेन्नित्य-मानन्दा द्वैतरूपकम् । जडप्रेम भवेद्देह - वित्तादिसंभवं तथा ॥ ५२१ ॥ आत्मप्रेम्णाभवेन्मुक्ति-र्जडप्रीत्या तु संसृतिः । ईश्वरोपासको ह्यात्म-प्रेमीचान्यो भवेज्जडः ॥ देहस्य भोगिनो नैव, किन्तु सौन्दर्य भोगिनः । आत्मनां मनसां चैव, ज्ञानाग्निपक्वरागिणः ॥ ते प्रेमतो विश्वं, गुप्तभेदं प्रकाशते । प्रेम्णा विश्वं वशीभूतं, जायते भक्तियोगिनाम् ॥ ५२४॥
For Private And Personal Use Only