________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
जैत्रशक्तिर्भवेद्यत्र, तत्राऽस्ति जैनशासनम् । जैत्रशक्तिप्रतापेन, शुद्धप्रेम प्रजायते॥५०॥ भक्तानां परिणामेषु, कृत्येषु नैव दोषता। भक्ताः सर्वत्र निर्दोषा, धर्म्यकर्तव्यकारकाः॥५०२॥ अब्धिवत् पूर्णगंभीराः, क्षुद्रादिदोषवर्जिताः। भक्ता भवन्ति सत्पात्रं,शुद्धप्रेमाधिकारिणः ॥ हठादिसर्वयोगाना, लयो भक्तौ प्रजायते । साधिते भक्तियोगे तु, सर्वयोगाः प्रसाधिताः॥ सर्वजातीयमंत्राणां, लयोऽस्ति वीरनामनि। सर्वशक्तिसमुत्पत्ति-महावीरस्य जापतः॥५०५॥ सर्वकर्मविनाशोऽस्ति, महावीरेतिजापतः। महावीरप्रभोर्जापे, बुद्धिलक्ष्मीसमृद्धयः ॥५०६॥ महावीरस्य भक्तानां, देवदेवीसहायता। यत्र तत्र भवेद् गुप्त-रूपेण सत्यनिश्चयः ॥५०७॥ दर्शनं देवदेवीनां, वीरभक्तस्य जायते। स्वप्नेऽपि तस्य बोधस्य, प्रदाता सद्गुरुर्भवेत् ॥५०८॥ महावीरप्रभोक्ता-महावीरेतिगर्जनाम्। कुर्वन्ति पूर्णभावेन, वीरकल्याणकोत्सवे । ५०६॥ जिनेन्द्रश्रीमहावीरे, सद्गुरौ जैनशासने । नामरूपलयं कृत्वा, वर्तितव्यं सुरागिभिः ॥५१०॥ पूर्णविश्वाससत्प्रेम्णा, प्रत्यक्षसद्गुरौजनैः। ममत्वस्य लयं कृत्वा, कर्तव्यं कर्म सर्वदा । ५११॥ सत्कर्तव्योपरिप्रेम, कर्तव्यं शुद्धरागिभिः। यत्र प्रेम भवेत् तत्र, चित्तैकाम्यं प्रजायते ॥१२॥
[३]
For Private And Personal use only