________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ४२ ]
सर्वज्ञः श्रीमहावीरः सर्वथा सत्यभाषकः । पूर्णश्रद्धाबलेनैव, तस्मिन् प्रेम सुखावहम् ॥४८९ ॥ जैनधर्मसमो धर्मो, नैव भूतो भविष्यति । वेदादनादिकः सत्य-स्तस्यश्रद्धा महाफला ॥४६०॥ तस्य श्रद्धाबलेनैव, पूर्णप्रेम प्रजायते । पूर्णप्रेमबलेनैव, प्रेमी याति परां गतिम् ॥४६१॥ सर्वज्ञ श्री महावीर-देवेन सत्य भाषितम् । तद्वाच एव सद्वेदा - स्तस्य श्रद्धैव मुक्तिदा ॥४६२॥ महावीरागमेष्वेव, श्रद्धाप्रेम सुखप्रदम् । सर्वधर्मान् परित्यज्य, वरिस्य शरणं व्रज ॥४६३॥ वीरागमेषु सत्प्रेम, कलौ मुक्तिप्रदायकम् । मुक्तिप्रयुक्तिभिर्भक्तै- रक्ष्या जैनागमाः सदा ॥ जैनसंघोपरिप्रेम, तथा जैनागमोपरि । यस्य स सर्वभक्तेषु, श्रेष्ठस्तस्मै नमोऽस्तुनः ॥४६५॥ अन्तःप्रेम बहिःप्रेम, यस्य प्रेममयं जगत् । तस्यात्मा व्यापको भूयात्, केवलज्ञानतः स्वयम् ॥ धर्ममाभवेद्यस्य, दुष्टता नैव विद्यते । तस्य भक्तिर्भवेत् सत्या, परमात्मप्रदर्शिका ॥४६७॥ पूर्णप्रामाण्ययोगेन, प्रेमभक्तिः प्रजायते । भक्तिमार्गाधिरोहेण, विनिपातो न जायते ॥ ४६८ ॥ प्रत्यवायो न जायेत, भक्तानां धर्मकर्मसु । जैनधर्मबलेनैव, प्रान्ते मुक्तिर्न संशयः ॥ ४६६ ॥ पूर्णप्रेम महाभक्ति - जैनानां नान्यदेहिनाम् । जैत्रशक्तिविहीनानां, भक्तिर्ज्ञानं न जायते ॥
For Private And Personal Use Only