________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
कृतकानुसारेण, सुखंदुःखं भवेत् सदा। ज्ञात्वैवं प्रेमिणो वीर-वीरेति जापका जनाः॥४७७॥ शुभार्थं जायते यत्तद् , जानन्ति प्रेमयोगिनः।हर्षशोकं न कुर्वन्ति, कर्मसिद्धांत वेदिनः॥१७॥ महावीरे प्रलीनस्य, समत्वं सर्ववस्तुषु।जायते मुक्तिदं नित्यं, नाशकं सर्वकर्मणाम् । ४७६॥ ममत्वं जायते यस्य, महावीरप्रभो दृढम् । सुगुरौ जैनधर्मे च, तस्य मुक्तिधुवं भवेत् ॥४८॥ घोरासिघोरपापानां,महावीरस्यरागतः। मृत्युप्रान्ते भवेन्मुक्ति-मुह्यन्ति तत्रनास्तिकाः॥४८१॥ जैनधर्मोपरिद्वेषो, यस्यवीरे गुरौ तथा। नास्तिकेषु महापापी, स याति दुर्गतिं सदा ॥४८२॥ नास्तिकानां प्रतीकारात्, महावीरस्य रागिणः। स्वर्गादिसद्गति यान्ति, व्रतायै रहिता अपि ॥ धर्मोद्धाराय जायन्ते, शुद्धप्रेमावतारिणः। दुष्टानां सर्वथा नाशं, कुर्वन्ति सर्वशक्तितः॥४८४॥ पूर्णश्रद्धा सदा कार्या, वीरगुर्वादिके जनैः। श्रद्धामूलं भवेत प्रेम, जैनधर्मे मनीषिणाम्॥४८५॥ तर्कादिकं न कर्त्तव्यं,महावीर प्रभौ कदा। महावीरोक्ततत्वेषु,शङ्का कार्यान रागिभिः॥४८६॥ तर्कशङ्कादितः श्रद्धा,प्रेमनाशो भवेत् खलु।विवादोऽपि न कर्त्तव्यः, कदापि जैन धर्मिभिः । श्रद्धाप्रेमविनाशाय, कुयुक्तितर्ककोट यः। तत्पारं याति नो कोऽपि, तत्त्वस्य तर्ककोटिभिः॥
[४]
For Private And Personal use only