________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
चातुर्मासी शुभामेका, व्यनैषीत्करुणामयीम् । धनाध्यक्षमहेम्यानां, मनस्तोषविधायिनीम् ॥ ६३ ॥ भव्योवीं स ततः सिञ्चन् , सद्बोधामृतधारया । ससाद पुरं पाद्रा-ख्यातं शिष्यसमन्वितः ॥ ६४ ॥ स्वेन संस्थापितं तस्मि-अध्यात्मज्ञानमण्डलम् । ज्ञानेन विशदीकृत्य, दीपयामास योगिराद् ॥ ६५ ।। मोहनादिमहेभ्यानां, तत्त्वजिज्ञासुचेतसाम् । अभीष्टं पूरयामास, योऽध्यात्मज्ञानभास्वरः ॥६६॥ योगीन्द्रः स विदांश्रेष्ठः, ततोऽगावटपत्तनम् । भक्तिभारनताङ्गेन, सङ्घन विहितोत्सवम् ॥ ६७॥ अमात्यप्रमुखाः सर्वे, विद्वांसः श्रुतकीर्तयः । विधाय दर्शनं येषां, परमं मोदमासदन ॥६॥ गुजरेन्द्रमहीपेन, तद्वयाख्यानपिपासुना । प्रार्थितो यो मुनिर्भव्य-राजसब व्यभूषयत् ॥६६ ॥ व्याख्यानं नैतिकं दत्तं, गुरुणा तत्त्वसंभृतम् । निशम्य मस्तकं कोऽपि,नाऽधुनोदिति नो तदा ॥ ७० ॥ क्रमेण विहरस्तस्मा मुनीन्द्रः स समागमत् । संपदा निलयं जैनैः, पेथापुरपुरं श्रितम् ॥७१। कतिचिद्वासराँस्तत्र भन्याम्भोजदिवाकरः । स्थित्वा यो धर्मबोधेन, तारयामास देहिनः ।। ७२ ॥ तत्रत्यजैनसंघेन, संघीभूय सुमन्त्रितम् । आचार्यपदयोग्योऽयं, गीतार्थमुनिसत्तमः ॥७३॥ विद्याविशारदानाच, नानापत्तनवासिनाम् । विदुषामागतां श्रुत्वा, संमति हि तथाविधाम् ॥ ७४ ॥ निश्चयामासिवान् संघः, प्रमोदमेदुराशयः । सूरिपदं प्रदातव्यं, योग्यायास्मै चतुर्विधः ॥७५ ॥ नभोद्दीपनिधिक्षोणी-मिते (१९७०) वैक्रमवत्सरे । मार्गशीर्षसिते पचे, पूर्णिमाश निवासरे ॥७६ ॥
१ ज्ञान प्रसारक-२ हेमचंद्रात्मज मोहनलाल. ३ सयाजीराव गायकवाड.
For Private And Personal use only