________________
Shri Mahavir Jain Aradhana Kendra
www.kobauhog
Acharya Shri Kailassagersuri Gyanmandir
manoamiamine
तत्रत्यजैनसंघेन, महोत्सवपुरःसरम् । गुरूणां कारितं भूरि-मोदात्पुरप्रवेशनम् ॥ ४९ ॥ पण्डितैः सह संपर्क, कुर्वन् श्रीबुद्धिसागरः । बृहस्पतीयतेस्माशु, सद्बुमा मुनिवनमः ॥५०॥ तदानीं मोहनमुनि-मुनिवर्यः स्वशिष्ययुक् । आसीत्तत्र जनवात-धर्मबुख्या निषेवितः ॥५१॥ तेषां महात्मनां योगः, संजातो मोदवर्धकः। अनुरागः शुभो जज्ञे, तस्मिन्सिद्धान्तवेदिनि ॥५२॥ अन्यदा मोहनमुनि-ाख्यानसमये स्वयम् । भृण्वत्सु संघलोकेषु, मुदाऽऽचख्यावितिस्फुटम् ॥ ५३॥ भाव्ययं विबुधख्यातः, शासनस्य प्रभावकः । माननीयो मुनीनां वै, सर्वेषां बुद्धिसागरः ॥५४॥ भव्यान्प्रबोधयन्भूरीन्, ततोऽगादाजपत्तनम् । तत्रत्यजैनसंघेन, प्रार्थितो मुनिपुङ्गवः ॥ ५५ ॥ शासनोबतिमातन्व-श्चातुर्मास्यमकल्पयत् । ग्रन्थसन्ततिमातेने, स्वपरोपकृति स्मरन् ॥६॥ अध्यात्मतत्त्वविद्विज्ञो-योगविद्याविशारदः । काव्यकेलिरतप्रज्ञो-मुनिवर्यो व्यराजत ॥५७।। पुनः सूर्यपुरे चातुर्मासी स्थित्वा मुनीश्वरः । संघाग्रहण भव्यानां, मनोभीष्टमपूरयत् ॥ ५० ॥ जीवनादि महेभ्यानां, पूरिता कल्पना शुभा । समाधियोगतत्त्वानि, विस्तार्य तेन योगिना ॥ ५ ॥ तन्मुनीन्द्रप्रभावज्ञो-भव्यसंघनिमन्त्रितः । मुम्बापुरी यपो भव्या-भोजमुकल्लयन्मुनिः ।। ६० तत्रत्यजनतामोदं, वर्द्धयन् मुनिपुङ्गवः । स्वशिष्यपरिवारेण, संजुष्टचरणाम्बुजः ॥६१॥ विदुषां संशयान् छिन्दन , बोधयन् धर्मकाविणः नास्तिकाँश्च निराकुर्वन् , धर्ममार्ग प्रदीपयन् ॥१२॥
१ अमदावान. २ बुद्धिसागरः ३ धर्मचन्द्रात्मनजीवणचन्द्र.
and.
comcapos
For Private And Personal use only