________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
ततो विद्यापुरं प्रागाव, भ्रात्रनुज्ञाकृते सुधीः । क्षीणकर्मगतिः पश्चा-दाययौ तत्र पत्तने ॥ ३५ ॥ तावदायुः समाप्तिं स्वां, विज्ञाय रविसागरः । पद्मासनस्थितः श्रीमान् , समाधिस्थजितेन्द्रियः ॥ ३६ ॥ चमयित्वा जीवराशि, कृतनिर्यामणक्रियः । गच्छभारं समादिश्य, स्वशिष्यं सुखसागरम् ॥३७॥ स्मृतपश्चनमस्कारो-जगाम स्वर्गिणां पदम् । गुरुभक्तिरतेनाग्नि-संस्कारश्चन्दनैः कृतः ॥३८॥ संघन मिलितेनैव,-मष्टाहिकमहोत्सवाः । व्यधीयन्त जिनेन्द्राणां, मन्दिरेषु महर्द्धिकाः ॥ ३९ ॥ कलापकम् ।। क्रियायोगचणः शान्तः, सद्गुरुः सुखसागरः। विहारं कृतवाँस्तस्मा-त्तिष्ठत्येकत्र नो मुनिः॥४०॥ धरित्री पावयन् पाद-क्रमणैमुनिपुङ्गवः । प्रह्लादेनपुरं प्राप, ध्वजतोरणराजितम् ॥४१॥ गुरौ दिव्यालयं प्राप्ते, विरहार्दितमानसः । द्विचरोप तदास्थानं. नामन्यत मनःप्रियम् ॥ ४२ ॥ सुखाब्धि श्रीगुरुं श्रुत्वा, प्रह्लादनपुरस्थितम् । स्वयं तत्रागमत्सद्य-चारित्रग्रहणेच्छया ॥४३॥ गुरूणां सबिधौ तिष्ठन् , विज्ञातमुनिशिक्षकः। निजेच्छां दर्शयामास, स भवोच्छेदकारिणीम् ॥ ४४ ॥ द्वीपेन्द्रियनिधिक्षोणि ( १९५७ ) प्रमिते वैक्रमेऽन्दके । मार्गशीर्ष सितेपचे, पक्ष्यां चन्द्रजवासरे ॥ ४५ ॥ गुरुणा गुरुमोदेन, संपेन विहितोत्सवम् । दीक्षितः स विशुद्धात्मा, शासनोन्नतिहेतवे ।। ४६ ॥ युग्मम् ॥ बुद्धिपाथोधिरस्तीति, बुद्धिसागरसंज्ञया । आजुहाव गुरुः संघ-साधिकं तं महामुनिम् ॥४७॥ तीर्थयात्रां वितन्वानः, शिष्यवृन्दसमन्वितः । गुरुः पवित्रयन्पृथ्वी, जबाम सूर्यपचनम् ॥४८॥
१ कुशलः, २ पालणपुरं. ३ बुध. ४ सुरत.
wimanan-noundancernsunanimoonomenon------winnarnirmwarwwwwwwwwwwwwremiummonomen
For Private And Personal use only