________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
तद । गमन्मुनिश्रेष्ठो - विवस्वानिव तेजसा । शिष्यवृन्दसमायुक्तो - गुरुः श्रीरवि सागरः ॥ २५ ॥ गुरूणामागमं श्रुत्वा, सङ्घीभूय समुत्सुकः । पुरं प्रावेशयत्संघः पताकाभिरलङ्कृतम् ॥ २६ ॥ उपाश्रयं समागत्य, गुरुणा देशनाक्षणम् । विज्ञाय विदधे धर्म देशना पापनाशिनी ॥ २७ ॥ भन्या ! भवे मानवजन्म दुर्लभं विज्ञाय धर्म जिनपुङ्गवोदितम् । विधत्त येनाशु दयाविकस्वरं, स्वर्गापवर्गस्य निदानमुत्तमम् ॥ २८ ॥ पुनः स धर्मो द्विविधः प्ररूपितो- जिनोत्तमैः श्राद्धमुनीन्द्रभेदतः । आद्यस्तयोर्देशविरत्यभिख्यया, तथान्तिमः सर्वतएव कीर्त्तितः ।। २९ ।। निमज्जतां संसृतिवारिधौ महा- मोहग्रहव्याप्तजले तरण्डकम् । चारित्रधर्म शिवसौदीपकं गृह्णीत सद्यः सुखसंपदालयम् ॥ ३० ॥ दयाविशालः खलु जैनधर्मः, सर्वेषु धर्मेषु दया प्रधाना ।
दयाविहीनः स तु निष्फलोऽस्ति, तस्माद्विधेया सुतरां दया सा ॥ ३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
निशम्यैतां सुधासिक्तां गिरं सद्गुरुखोदिताम् । केचिच्छ्राद्धव्रतं केचित्सम्यक्त्वं जगृहुर्मुदा ॥ ३२ ॥ भव्यात्मा द्विचरः पीत्वा, सद्गुरोर्वचनाऽमृतम् । आसन्नसिद्धिको जज्ञे, चारित्रग्रहणोत्सुकः ॥ ३३ ॥ श्रयमेव गुरुर्मेऽस्तु संसारोदधितारकः । इत्यभिग्रहमाधाय स ययौ स्वनिकेतनम् ॥
३४ ॥
१ सूर्यः
[8]
For Private And Personal Use Only