________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
[<]
देहभावे बिलीनेहि, प्रेमाविर्भावता भवेत् । साक्षात्कारं प्रभोरूपं, सर्वत्र दृश्यते तदा ॥ ८१ ॥ स्वाभाविकं भवेत्प्रेम, मोहस्तु कृत्रिमो भवेत् । आत्माकर्षकरूपेण, प्रेमाविर्भावता भवेत् ॥ ८२ ॥ काममैथुनरूपेण, काममोहोदयो भवेत् । आत्मस्वैक्य स्वरूपेण, प्रेम सर्वत्र राजते ॥ ८३ ॥ प्रेमाधीना हि देवाःस्यु- महाधीनास्तु राचसाः। मोहाधीनास्तुबाह्याः स्यु-रान्तराः प्रेमयोगिनः। स्थूलं सूक्ष्मं भवेत्प्रेम, स्वार्थिकं पारमार्थिकम् । दैशिकं व्यापकं बोध्यं मूर्त मूर्तमपेक्षया ॥ ८५ ॥ शुद्ध प्रेमानुभावेन, स्वात्मवत् सर्वदेहिनाम् । भवेत् सेवा स्वभावेन, तत्र किञ्चिन्न भेदता ॥८६॥ शुद्धप्रेमणि संजाते, समः सर्वत्र जायते । श्रात्माऽभिन्नं भवेत्तत्र, प्राकट्यं परमात्मनः ॥८७॥ प्रेम नैव दासत्वं, प्रभुत्वं नैव देहिनाम् । ऐक्यं समं प्रियं सर्व, भासते निर्विकल्पकम् ॥८८॥ रागद्वेषविकल्पास्तु, नामरूपादि संश्रिताः । अज्ञानेन समुत्पन्नाः, प्रेम्णा यान्ति लयं रयात् ॥ ८९ ॥ सर्वपदार्थसौन्दर्य, पश्यन्ति प्रेमतोजनाः । सर्वसौन्दर्यसौन्दर्य, प्रेम्णः सर्वत्र राजते ॥ ६० ॥ ॐकारः सर्ववर्णेषु, प्रेमरूपोऽस्ति सर्वथा । ह्रीं श्रीं क्लीं मन्त्रवर्णास्ते, प्रेमव्यञ्जकशक्तयः ॥११॥ प्रियं यत्तत्प्रभो रूपं, सर्वत्र सर्वथा सदा । अप्रियं यत्तुमूढानां तत् प्रियं प्रेमिणां हृदि ॥ ६२ ॥
For Private And Personal Use Only