SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रस्तावना. -9=0 Acharya Shri Kailassagarsuri Gyanmandir प्रणम्य श्रीमहावीरं गुरुं च बुद्धिसागरम् । सूरीन्द्रं प्रेमगीतायाः, किश्चित्प्रास्ताविकं ब्रुवे ॥ १ ॥ इह खलु प्रविदितसिद्धान्ताऽऽगमतच्चानां त्रिगतमोहानां मोचमार्गोन्मुखवृत्तीनां परानपि तदेकलक्ष्यं दर्शयतां परहितसमुद्यतानां महात्मनां प्रवृत्तयोऽक्षयफलसाधका भवन्तीति विदितमेव सहृदयहृदयानाम् । पुरा गृहस्थधर्मसेविनोऽपि ज्ञानाश्मिकस्थितिमाचरन्तः स्वस्वाऽभीष्ट कार्योद्यता स्त्यागाश्रममनुकुर्वन्तः संसारमसारं बोधयन्तः सत्प्रवृतिं चक्रुः, आधुनिकास्तु मोहपाशेनिपतिता ऐहिक सुखाऽनुषङ्गिका लोभग्रहग्रस्ता आत्मदृष्टिपराङ्मुखाः केवलं दुःखमयं जीवनं प्रायो निर्वहन्ति, तत्कारणन्त्वज्ञानमेव विलोक्यते, अज्ञानोपहतदृष्टयोहिताहितं न पश्यन्ति, विवेकविकलानां सद्बुद्धिः कुतः सम्भवति । निर्बुद्धीनां शुभोदयः सर्वथा नैव सम्भाव्यते । अतोऽज्ञानता दूरतः परिहर्त्तव्या, यतोऽशुभकर्मणामुदयेन भवाऽटवीं परिभ्रमतोमानवानज्ञानमेव विषयेषु योजयति, कुकर्मवारिधौ निमज्जयति, दुरन्तं संसारवासं वर्धयति, कुविकल्पजालं समुत्पादयति, स्वजनेषु विरोधं प्रकटयति, दुष्कर्मनिर्माणे च तदेव हेतु:, श्रज्ञो जनो वैषयिकसुखनिमग्नोनिजात्मानमधः पातयति. जीवन्नपि स पशुप्रायो निगद्यते, तथाच - आहारनिद्राभयमैथुनं च समानमेतत्पशुभिर्नराणाम् । ज्ञानं हि तेषामधिको विशेषो - ज्ञानेन For Private And Personal Use Only
SR No.008640
Book TitlePrem Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy