SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. ः पशुभिः समानाः ॥ १ ॥ अतो विवेकबुद्धिं पुरस्कृत्य स्वहितनिरतैर्मोक्षसाधने धर्मकर्मणि सदोद्यमो विधेयः, यद्यपि मोक्षस्याऽसंख्या योगाः शास्त्रकारैः सम्यक्प्रतिपादिताः, तेषु प्रेम्णोऽपि समावेशो भवति, श्रीशङ्कराचार्यः केवलाऽद्वैतरूपेण, वल्लभाचार्यः शुद्धाऽद्वैतरूपेण, रामानुजाचार्यो विशिष्टाऽद्वैतरूपेण, मध्वाचार्यो द्वैताऽद्वैतरूपेण, परब्रह्मप्रेमाणमेव प्रत्यपादयन्। तथैव श्रीबुद्धदेवेनाऽपि प्रेमव्याख्याऽक्रीयत, "तृतीयसोपानस्थितेनाऽपुनर्जन्मना देहिना विषयोपभोगाऽऽसक्तिः सर्वथा हेया, क्रोधद्वेषसमुद्भूतोपाधिविषयकरागश्च त्यक्तव्यः, नैतावता येषु प्राणिषु शृङ्खलारूपोविशुद्धरूपः सर्वगतः सर्वजीवात्मसु महान् प्रेमा हातव्यः, अत्र प्रेमशब्दोरागपर्यायः,” “मित्तिमे सव्व भूसु " सर्वप्राणिषु मम मैत्री वर्तते, इत्यर्हदुक्त्यनुसारेणाऽर्हदुपासकाः प्रत्यहं वदन्ति मन्वते च, करुणा, प्रमोद, माध्यस्थ्यं, मैत्री, इतिचतुर्विधभावनान्तर्भूता मैत्री, चतुर्विधाऽपि भावना प्रेमाणं प्रतिपादयति, योगविशारद श्री मदानन्दघन न्यायविशारद श्रीमद्यशोविजय महोपाध्याय श्रीमच्चिदानन्द श्रीमद्देवचन्द्रप्रमुखैः प्रेममयानिगीतानि गीतानि तद्रूपमेवाद्भुतं प्रेमतत्त्वमस्ति तस्मिन्प्रेम्ण्येव श्रेयो भावनारसः समन्तात्प्रसरति, मैत्रीप्रमोद भावनासंभृतं तदेवाद्भुतं जीवनं प्रशस्यते, परब्रह्ममयं प्रेम विशुद्धाऽऽत्मज्योतिः प्रकाशते, इदृशी प्रेमवृत्तिरात्मनः उच्चदशाऽभिधीयते, अनयैवजीवः श्रेणिगतो भवति, साचाष्टमगुणस्थाने लभ्यते, उपशमश्रेणि गतोदेही निजायुषः चये निपत्यैकादशगुणस्थानात्, चतुर्थगुणस्थानमागत्य तत्रैव मृत्वा वैमानिकेषूत्पद्यते, विच्छिन्नध्यानश्रेण्याः पुनः सन्धानकरणे प्रेमभावना श्रतीवोपयुज्यते, अर्थात् सप्तमगुणस्थानतः प्रेममयी भावनोत्पद्यते, ध्यानश्रेण्याः प्रारंभस्तत्रैव भवति, शुक्लध्यानस्यान्तिमश्रेण्यां प्रेमभावनाया निवृत्तिर्भवति. आत्मरमणता किं वाऽऽत्मस्वरूपरमयतैव प्रेमाभिधीयते, ५ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
SR No.008640
Book TitlePrem Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy