________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तर्हि स तु द्वादशगुणस्थानपर्यन्तं तिष्ठति, केवलज्ञानस्यप्रादुर्भावे मनोऽपि लीयते, ततस्तत्र परहितकांच्चाप्रेमकरुणाप्रभृतयोभावा विनश्यन्ति, तथैव चतुर्थगुणस्थानकात् विशुद्धप्रेम प्राप्यते, आत्मविशुद्धप्रेमा त्वपेक्षया त्रयोदशगुणस्थानेऽपि संभवेत् । प्रेमा द्विविधः शुद्धोऽशुद्धश्च तत्र शुद्धोमोचाऽभिलाषुकैः सर्वोपकारक्षम: मैत्र्यादिगुणवर्धकः सर्वदा सेव्यः, अशुद्धश्च विषयभोगजीवनोधर्मकर्मनिहन्ता दुर्गतिदायकः सर्वदाहेयः तथा च
शुभभावना शुद्ध- प्रेमता निरयप्रदा । शुभभावः सदा शुद्ध प्रेमास्ति मोक्षदायकः ॥ १ ॥ शुद्धप्रेमा ततः कार्यः, सर्वत्र सर्वदेहिषु । नहि प्रेम्णा समं लोके, विद्यते जिनभाषितम् ॥ २ ॥ प्रशस्तथाऽप्रशस्तश्च, प्रेमास्ति द्विविधो जने । संघादिधर्मरक्षायां प्रशस्तप्रेम कीर्त्यते ॥ ३ ॥ स्वर्गापवर्गदा नृणां, प्रशस्तप्रेमभावना । अप्रशस्ता तु सा स्वार्थ सिद्धिकामादिहेतुका ॥ ४॥ अप्रशस्तः सदा त्याज्यः, प्रशस्तो ग्राह्य एव च । प्रेमाऽऽद्योऽशुद्धि दोनित्य-मन्तिमस्तु विशुद्धिः || ५ || विशुद्धप्रेमिणो सर्वे, जीवाः स्वात्मसमाः स्थिताः । अशुद्ध प्रेमिणोजीवान् पश्यन्ति भेदबुद्धिः ॥ ६ ॥ प्रेमाऽस्ति जीवनाधारः, प्रेमसार्थो हि भूतले । सत्यव्यवहार एवासौ, प्रेमास्ति वर्त्मरक्षकः ॥ ७ ॥ सैव कष्टाऽब्धिसेतु, हृदयाऽऽरामवारिजम् । धर्मः सनातनः प्रेम, प्रेमास्ति सत्यपूजनम् ॥ ८ ॥ कर्मप्रेमतो नान्यत्, त्रिषु लोकेषु विद्यते । परमानन्दता प्रेम्णि, तस्मातृष्णा निवर्तते ॥ ९ ॥ स्वेच्छापूर्तिः स एवाऽस्ति, हृद्याशाहेतुकः स च । निःसीमाऽनन्तता प्रेम्णि, सर्वतो व्यापकोऽस्त्यसौ ॥ १० ॥ अनुमातुं न तच्छक्यं केनाऽपि चितिमण्डले । दम्पत्योः स्थिरतामेति, सङ्घीभूय स सर्वतः ।। ११ ।।
For Private And Personal Use Only