________________
Shri Mahavir Jain Aradhana Kendra
www.kobauhog
Acharya Shri Kailassagersuri Gyanmandir
marwanawwan-
KHANARomanrainamainancianworoinnar
वंशजेषु सदा प्रेमा, दृश्यते विस्तृतिं गतः । विभज्यते न यत्प्रेम, भ्रातृपुत्रादिभिः कदा ॥१२॥ अनुरागविधाने हि, प्रेमी श्राम्यति नो जनः । क्षणतः प्रेम निर्माति, कुटी दीव्यनिकेतनम् ॥ १३ ॥ प्रेमतुल्यंबलंनान्य-त्सर्वसिद्धिविधायकम् । मनःशुद्धिविधानेन, प्रेमवासो भवेध्रुवम् ॥ १४॥ रोचते न मनुष्येभ्यः, शुद्धिहीनं निकेतनम् । दिव्यवैभवसम्पन्न-मपि शुद्धिः प्रशस्यते ॥ १५ ॥ आन्तरिकतमोत्रातः, प्रेमतः क्षीयते क्षणात् । कूटत्ववादलौषश्च, प्रेमवातेन शीर्यते ॥ १६ ॥ प्रेमभावो यदा विश्वे, विश्वस्मिन् विस्तृति व्रजेत् । विगताशामलः प्रेमी, तदा याति परं पदम् ॥ १७ ॥ तेनैव सकला सृष्टिः, सद्यः प्रेममयी भवेत् । द्वैतभावमयी दृष्टि-मनुजानां विनश्यति ॥ १८॥ चक्षुषा दृश्यते नैव, प्रेमरम्यत्वमङ्गिभिः । अद्भुता शक्तिरस्याऽस्ति, मनोभेदः प्रलीयते ॥ १९ ॥ क्रयविक्रयतो नैव, लभ्यते प्रेम कर्हिचित् । सुलभः प्रेमसद्भावो-देहिनां प्रेमतः खलु ॥२०॥ प्रेमतो महतां मानः, पूज्यानां भक्तिरन्वहम् । इष्टदेवशुमध्यानं, मनःसौहार्दमाप्यते ॥ २१ ॥ देशभक्तिरुचिः प्रेम्णो-द्विषदन्यायनिवृतिः। अन्येऽपि शुभयोगाश्च, भवन्ति प्रेमभावतः ॥ २२ ॥ प्रेममार्गोऽतिरम्योऽस्ति, तदन्यो दुरतिक्रमः । भयङ्कराणि विघ्नानि, वर्तन्ते यस्य सन्निधौ ॥ २३ ॥ स्वार्थदस्युः स्थितस्तत्र, विरहःपृथुवेदना । अस्थिरत्वं च तत्रैव, लोकलज्जापि देहिनाम् ॥२४॥ सुलभं कथनं प्रेम्ण-स्तत्प्रवृत्तिस्तु दुष्करा । मनश्चञ्चलताग्रस्त, प्रेमवृत्तिपराङ्मुखम् ॥२५॥ कष्टेन प्रेमसद्भावः, सज्जनानां समुद्भवेत् । प्रेमता जायते प्रायः, समबुद्धिविधायिनाम् ॥ २६ ॥
For Private And Personal use only