________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
mammam
schennainganamnnamnnarvawwwwhhahasranamance
विशुद्धप्रेम क तिष्ठतीति ग्रन्थकर्ता स्वयमाहयत्रात्मा दृश्यते शुद्धः, सच्चिदानन्दलक्षणः । आसक्तिर्यत्र नैवाऽस्ति, शुद्धप्रेमाऽस्ति तत्र हि ॥ २॥ सर्वजातीयदेहेषु, जीवा देवाः स्वभावतः। तत्सार्द्धमात्मवत् प्रेम, पूर्णानन्दप्रकाशकम् ॥३॥ जिनेन्द्राः सर्वजीवाः स्यु-स्तत्रात्मैक्येन वर्चनम् । परप्रेम विबोद्धव्यं, शुद्धब्रह्मरसात्मकम् ॥४॥
विना प्रेम्णा दोषग्रस्ते कलियुगे धर्मसिद्धिर्नजायतेकलौ प्रेममयो धर्मः, सर्वत्र मुक्तिदायकः। रागेण संयमो बोध्य-चारित्रिणामपि ध्रुवम् ॥५॥ प्रेम्णा धर्मस्य संवृद्धिः, प्रेम्णैव देवपूजनम् । प्रेम्णैव सद्गुरोः पूजा, प्रेम्णा विश्वं रसात्मकम् ॥६॥ जगच्छ्रन्यं विना प्रेम्णा, नीरसं बहिरन्तरम् । लोकानां सर्वदा प्रेम, स्वान्तरवाह्यजीवनम् ॥७॥ बाह्यनैमित्तिको रागो-वैषयिको विनश्वरः । आत्मज्ञानविहीनानां, भवत्येव जडात्मनाम् ॥८॥
येन सर्वात्मभिः साकमैक्यमनुभूयेत, तद्महाब्रह्मरसाऽनुभवदायकं प्रेमैव विद्यते, । विशुद्धप्रेमतो देहसबस्थितानां सर्वजातीयजीवानां दर्शनमात्मवत्सदैव भवेत् , विशुद्धप्रेमभावतः सर्वदोषाः क्षयं यान्ति, सर्वव्यापकप्रेमतो निन्दादिदोषा न समुद्भवन्ति, प्रशस्यं प्रेम मनीषिणां श्रेयसे मोक्षाय च भवति । अप्रशस्येन रागेण भवाटव्यां दुःखपरम्परा प्रादुर्भवति, अतः सर्वदुःखविनाशाय शुद्धप्रेम प्रकटीकुरु, प्रेमतः पुंसां सर्वकर्तव्यसामर्थ्य प्रादुर्भवति. यज्ञस्वरूपेण विशुद्धप्रेम प्रतिपादितं सूरीन्द्रेण
For Private And Personal use only