SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir mammam schennainganamnnamnnarvawwwwhhahasranamance विशुद्धप्रेम क तिष्ठतीति ग्रन्थकर्ता स्वयमाहयत्रात्मा दृश्यते शुद्धः, सच्चिदानन्दलक्षणः । आसक्तिर्यत्र नैवाऽस्ति, शुद्धप्रेमाऽस्ति तत्र हि ॥ २॥ सर्वजातीयदेहेषु, जीवा देवाः स्वभावतः। तत्सार्द्धमात्मवत् प्रेम, पूर्णानन्दप्रकाशकम् ॥३॥ जिनेन्द्राः सर्वजीवाः स्यु-स्तत्रात्मैक्येन वर्चनम् । परप्रेम विबोद्धव्यं, शुद्धब्रह्मरसात्मकम् ॥४॥ विना प्रेम्णा दोषग्रस्ते कलियुगे धर्मसिद्धिर्नजायतेकलौ प्रेममयो धर्मः, सर्वत्र मुक्तिदायकः। रागेण संयमो बोध्य-चारित्रिणामपि ध्रुवम् ॥५॥ प्रेम्णा धर्मस्य संवृद्धिः, प्रेम्णैव देवपूजनम् । प्रेम्णैव सद्गुरोः पूजा, प्रेम्णा विश्वं रसात्मकम् ॥६॥ जगच्छ्रन्यं विना प्रेम्णा, नीरसं बहिरन्तरम् । लोकानां सर्वदा प्रेम, स्वान्तरवाह्यजीवनम् ॥७॥ बाह्यनैमित्तिको रागो-वैषयिको विनश्वरः । आत्मज्ञानविहीनानां, भवत्येव जडात्मनाम् ॥८॥ येन सर्वात्मभिः साकमैक्यमनुभूयेत, तद्महाब्रह्मरसाऽनुभवदायकं प्रेमैव विद्यते, । विशुद्धप्रेमतो देहसबस्थितानां सर्वजातीयजीवानां दर्शनमात्मवत्सदैव भवेत् , विशुद्धप्रेमभावतः सर्वदोषाः क्षयं यान्ति, सर्वव्यापकप्रेमतो निन्दादिदोषा न समुद्भवन्ति, प्रशस्यं प्रेम मनीषिणां श्रेयसे मोक्षाय च भवति । अप्रशस्येन रागेण भवाटव्यां दुःखपरम्परा प्रादुर्भवति, अतः सर्वदुःखविनाशाय शुद्धप्रेम प्रकटीकुरु, प्रेमतः पुंसां सर्वकर्तव्यसामर्थ्य प्रादुर्भवति. यज्ञस्वरूपेण विशुद्धप्रेम प्रतिपादितं सूरीन्द्रेण For Private And Personal use only
SR No.008640
Book TitlePrem Geeta
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy