________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kaliassagarsuri Gyanmandir
शुद्धप्रेम महायज्ञे, ज्ञानाग्निदीपिते शुभे । नामरूपादिमोहस्य, होमः कार्यो मनीषिभिः ॥३३३॥ स्वार्थकीर्त्यादि होमेन, शुद्धप्रेमी भवेजनः। सर्वकर्माणि कर्तुंस-ईश्वरो भवति स्वयम्॥३३४॥ शुद्धप्रेममये यज्ञे, भस्मीभूत मनीषिणाम्। दिव्यतेजोमयाश्चित्रा-आत्मानः स्युर्गुणैःशुभाः॥ शुद्धप्रेमणि संस्नातः, स्नातको योगिभिर्मतः। स्वतंत्रः सर्वथा कर्तु-मकर्तुं विश्वरूपवान्।३३६ सदाचारविचारेषु, प्रवृत्तोऽपि स्वभावतः। निर्लेपः स्नातकःप्रेमी, तेन कर्म न बध्यते ॥३३७॥ करोति किं न सत्प्रेमी, व्यक्त प्रेम प्रभावतः।जननी भूमि सत्प्रीत्या, निर्वीयो वीर्यवान् भवेत्॥ गुरुप्रेमी स बोद्धव्यः, कोटिविघ्नैर्न भिद्यते। अन्तश्चक्षुर्भवेत्तस्य, गुरुश्रद्धा न जीवितुः ॥३३६॥ एक एव गुरोः प्रेमी, सर्वज्ञो जायते भुवि । स्ववानुगतः सर्वो-जायते व्यक्त शक्तिमान् ॥ सप्तैव भूमिका बोध्याः, प्रेम्णोऽनुक्रमभावतः।गुर्वाज्ञातोजनैर्धार्याः, स्वाधिकार विशेषतः॥३४॥ आद्यायां भेदरूपेण, स्वार्थ दोषेण मिश्रितम्। काम्यं च भवति प्रेम, सदोष द्वेष संगकृत् ॥३४॥ नामरूपादिषुव्यक्त-काम्यबुद्धिर्भवेत् खलु । जैनधर्मोपरि प्रेम, यमादौ प्रेमता भवेत्॥३४३॥ फलाशापूर्वकं यत्र, प्रेमिणां प्रेम जायते। द्विष्टेषु वैरबुद्धिश्च, रागस्य क्रयविक्रयम् ॥३४४॥
[२९]
For Private And Personal use only