________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठयां पूर्ण भवेत् प्रेम, निर्दोषं च मनः सदा । शुद्धात्मबोधरूपं हि, शुद्धप्रेमैव गीयते ॥ ३८९ ॥ प्रेमरूपं जगत् सर्व, शुद्धप्रेम्णा प्रभासते । यत्र वैरी न वैरं न, प्रेमिषु नैव भेदता ॥ ३८२ ॥ दोषा यत्र न भासन्ते, शुद्ध प्रेम प्रवाहतः । श्रहिंसादिगुणा यत्र, पूर्ण रूपाः स्वभावतः॥ ३८३॥ यत्रात्मा परमात्माऽस्ति, शक्तिव्यक्तिमयोमहान् । निरञ्जनं निराकार - मात्मतत्त्वं प्रभासते ३८४ आत्मदृष्टिर्भवेन्मुख्या, व्यापकप्रेमयोगिनाम्। धारणाध्यानलीनानामुन्मनीभावमुख्यता । ३८५॥
नैव तथा नारी जातिर्नैव च पौद्गली । श्ररूपोऽस्ति स्वयंशुद्धः, देहस्थोऽपि न देहवान् । ३८६ कर्मबन्धो भवेन्नैव, कृतेषु सर्वकर्मसु । भवेमुक्तौ समाबुद्धिः, समप्रेमस्वभावतः॥ ३८७ ॥ अन्तर्बहिर्महावीरः, शुद्धप्रेम्णैव दृश्यते । महावीरमयं विश्वं यत्र तत्र प्रदृश्यते ॥ ३८८ ॥ आत्मैव श्रीमहावीर - आत्मना परिवेद्यते । शुद्धात्ममग्नतायोगा- दानन्दोहृदि जायते ॥ ३८९ ॥ आत्मन श्रन्तरक्रीडा, बुद्ध्यादिवृत्तिभिः सह । यत्रानुभूयते प्रेम्णा, तत्रदुःखस्य नाम किम् ॥ दोषत्वं नैव कुत्रापि द्रश्यतेऽत्र स्वभावतः । दोषत्वं च गुणत्वं च - आपोक्षिकं न वस्तुतः ॥ ३६१ ॥ गुरुशिष्यादिभेदस्तु किञ्चिन्नैवात्र विद्यते । शुद्धप्रेमपरब्रह्म, सर्वत्रैक्यं प्रकाशते ॥ ३९२ ॥
[ ३३ ]
For Private And Personal Use Only