________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
[३४] एक एव महावीरो-जिनेन्द्रः परमेश्वरः। महाभक्तस्य हृद्येव भाति विश्वमयः प्रभुः॥३९३॥ शुद्धप्रेम्णा महावीरः, शुद्धात्मैव स्वयंभवेत् । अप्रमत्तः सदाजाग्रत् ज्योतिषांद्युतिभास्करः॥ आचाराणां विचाराणां, नैयत्यं नैव वर्त्तते। सर्व कर्तुमकर्तुं यः, समर्थो जिनरागवान् ॥३९५॥ निर्गतः शास्त्रसंज्ञातो-लोकसंज्ञाविनिर्गतः । देहसंज्ञाद्यभावेन, शुद्धप्रेमीप्रभुःस्वयम् ॥३९६॥ साकारश्चनिराकारः, शुद्धात्माहृदि भासते। शुद्धात्मैवपरप्रेम, पूर्णशक्तिमयःप्रभुः ॥ ३६७॥ जीवन्मुक्तो भवेच्छुद्ध-प्रेमीसर्वत्रसर्वदा । नामरूपादिमोहस्य, नाशोभवति सर्वथा ॥३९८॥ अभेदप्रेमसामर्थ्य, सर्वत्रव्यापकं खलु । सविकल्पपरप्रेम, पूर्णानन्दमयं सदा ॥ ३६९ ॥ यत्रैक्यं परमप्रेम-भावेनसर्वदेहिषु। निष्कामप्रेमशुद्धात्मा पूर्णानन्दोरसात्मकः ॥ ४००॥ सूक्ष्मकामादिसंकल्पः, किञ्चिद् भवति नोकदा। सप्तम्यां भूमिकायां च, निर्वाच्यं प्रेमवस्तुतः सत्प्रेमैवकलौ मोक्षः, सत्प्रेमपरिभाषया, अप्रमत्तदशां यावत् , शुद्धात्मप्रेम योगिनाम् ॥४०२॥ अप्रमत्तदशा जीवन्-मुक्तिरेवकलौशुभा। अप्रमत्तदशां यावत् , सत्प्रेम्णः सप्तभूमिकः ॥४०३॥ अप्रमत्तदशाशुद्ध-प्रेममुक्तिर्मनीषिभिः। अत्रैव वेद्यते साक्षात् , तत ऊर्ध्वं न वेद्यते ॥४०४॥
For Private And Personal use only