________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रेमात्मनां महासंघ- रूपोऽस्ति भगवान्स्वयम् । तदिच्छातो जगत्सर्वं वर्त्तते कर्मचक्रवत् ॥ १४९॥ विश्वप्रेमस्वरेणैव, विश्वचक्रं प्रवर्त्तते । शुद्धप्रेमस्वरेणैव रसः सर्वत्र देहिषु ॥ १४२ ॥ माता पिताप्रेम, प्रभुः प्रेम जगद्गुरुः । मित्रप्रेम कुटुम्बं च पुत्रः प्रेम वधूस्तथा ॥१४३॥ सर्वत्र रुचिताप्रेम्णा, सर्वजीवेषु जानताम् । प्रेमरूपं जगत्सर्वं जातं तस्य न शून्यता ॥ १४४ ॥ प्रेमाऽभावान्न शिष्यत्वं, गुरुत्वं च कदाचन । प्रेमाऽभावात्प्रभोर्भक्ति-जयते नैव देहिनाम् ॥१४५॥ यत्र प्रेम भवेत्तत्र, श्रद्धासं जायते सताम् । प्रेमाऽभावात्सुकार्याणां प्रवृत्तिर्नैव संभवेत् ॥ १४६ ॥ प्रेमाभावाद्भवेद्भेदो - यत्र तत्र स्वभावतः । प्रेम्णा नित्यात्मसंबन्धे, प्राणान्तेनैव भेदता । १४७ । यस्य प्रेममयी वाचा, पूर्णप्रेममयं मनः । पूर्णप्रेममयो देह - स्तस्यात्मा स्वर्गदेवराट् ॥ १४८ ॥ जातिं प्रेमभावस्य कुर्वन्तु सर्व देहिषु । स्वर्गरूपो हि संसारो-जायते येन सत्त्वरम् ॥ ९४६ ॥ मिष्टान्मिष्टतरं प्रेम, यत्रतत्राऽस्ति देहिनाम् । अलौकिकं भवेत्सर्वं, प्रेमिणां सर्व कर्मसु ॥ १५०॥ प्रेम्णो ज्ञानरसोऽस्त्येव, ज्ञानात्पूर्ण रसोदयः । अतो ज्ञानरस प्राप्तिः कर्त्तव्या प्रेमदेहिभिः ॥ १५१ ॥ ज्ञानतः सर्वसौन्दर्य, भासते सर्व वस्तुषु । ज्ञानरूपं हि सौन्दर्य - मात्मनि प्रेमरूपकम् ॥ १५२॥
[१३]
For Private And Personal Use Only