________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवप्रेम गुरोः प्रेम, धर्मप्रेम च मुक्तिदम् । विज्ञायेति महावीर - भक्तो याति परंपदम् ॥६४५॥ सर्वात्मानो महावीराः, संग्रहसत्तया स्फुटम्। तेषामुपरि सत्प्रेम, सेवा मोक्षाय देहिनाम् । ६४६ ॥ प्रतिघत्रं महावीर - मूर्तिपूजाविधायकः । गुरोः पूजाविधाता च, भक्तो मोक्षाय कल्पते॥६४७॥৷ व्यापक प्रेमसद्भक्त्या, सर्वविश्वस्य देहिनाम् । उपकाराय जीवेद्यो - वीरभक्तः स सर्वथा ॥ ६४८॥ प्रेमयोगं समाश्रित्य, अनन्ताः परमं पदम् । याता यान्ति च यास्यन्ति, जीवा आन्तरजीवनाः ॥ असंख्य दृष्टिभिर्मोक्षो - महावीरेण दर्शितः । तत्र सत्प्रेमतोमुक्ति - जयते सर्वदेहिनाम् ॥ ६५० ॥ कलौ तु प्रेमयोगेण, मुक्तिमार्गः प्रवर्त्स्यते । सर्वभव्यात्मनां शान्ति-दायकः पापरोधकः । ६५१ मिथ्यायुक्ति शतेनाऽपि, जैनधर्मान्न यश्चलेत् । जैनधर्मः स विज्ञेयः, सत्यप्रेमा स्थिराशयः। ६५२ परब्रह्म महावीरं, विना देवो न विद्यते । इत्येवं निश्चयो यस्य, तस्यैव भक्तियोग्यता ॥ ६५३ ॥ संप्रति विद्यमानाना-मागमानां तथा कलौ । सूरिवाचकसाधूनां श्रद्धया प्रेमपात्रता ॥६५४॥ वीरभक्तस्य गांभीर्यं, पूर्णसागरवद् भवेत् । चाल्यते नैव देवेन्द्र - देहादिनाशतः कदा ॥ ६५५॥ महावीरस्य सत्प्रेम, भक्तानां शरणं सदा । सर्वधर्मान् परित्यज्य, वीरस्य शरणं व्रज ॥ ६५६ ॥
[ ५५ ]
For Private And Personal Use Only