________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirthang
Acharya Shri Kailassagauti Gyanmandit
ॐतत्सत् परम प्रेमिन् ! महावीर महाप्रभो!। सर्वविश्वोपकाराय,भवतु त्वत्पदाम्बुजम् । ६६९ शमस्तु सर्वलोकानां, जैनशासनरागिणाम् । कलो प्रेममयं जैन-शासनं जयतात्सदा ।६७०। परंपराप्रवाहेण, प्रेमगीता प्रवर्त्तिता । उद्धृता भक्तियोगेन, यशोभद्रेण सूरिणा ॥ ६७१ ॥ परंपरोद्धृता भूयात् , सर्वत्र पञ्चमाऽरके । भक्तियोगस्य सद्बोध-दायिनी मुक्तिवाहिनी।६७२। गृहत्यागदशापूर्ण-महावीरयशोदयोः। निष्कामप्रेमयोगोऽस्तु, लोकानां शरणं सदा । ६७३ । नेत्र द्वीप रस क्षोणी-[१९७२] प्रमिते वैक्रमेशुभे। वत्सरे श्रावणे शुक्ल पञ्चम्यां भृगुवासरे।६७४। विद्यापुरीयसंघेन, प्रार्थितेन महर्षिणा । चतुर्मासस्थितिं तत्र-विधाय सुसमाधिना ॥६७५ ॥ प्रेमगीता सुगीतेयं, बुद्धिसागर सूरिणा। लोकत्रयी पठित्वेमां, नन्दतात्सुचिरं भुवि ॥६७६ । यावद्भूमण्डलं धत्ते, यावच्चन्द्रदिवाकरौ। तावदुल्लासतामेतु, प्रेमगीतेयमुत्कटा ॥ ६७७ ॥ अध्यात्मरसनिर्भिन्ना, प्रेमगीतेयमद्भुता। प्रेमिण प्रेमतो देया, यादृक्तादृक् जनस्य नो ।६७८ छद्मस्थत्वात्प्रमादाद्वा, क्वाऽपि दोषस्य संगतिः। वायते मतिमद्भिश्चेत्-क्षन्तव्यं कृपया मयि । मगलं भगवान् वीरो-मङ्गलं गौतमप्रभुः। नैगमायैर्नयैः सर्वे-जैनधर्मोऽस्तु मङ्गलम् ॥६८०॥
For Private And Personal use only