________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रेमगीतामाहात्म्यम्—
प्रेमगीता विधातव्या, बुद्धिसाध्या मनीषिभिः । एषैव मोक्षदा पुंसां, किमन्यैः शास्त्रविस्तरैः ॥ १ ॥ एकस्याः प्रेमगीतायाः, पाठेन दुरितक्षयः । शास्त्रान्तरप्रयासेन, सृतं बुद्धिमतां नृणाम् ।। २ ।। प्रेमगीतामृगेन्द्रोयं, यावन्नायाति सन्मुखम् । तावद्गर्जन्ति शास्त्राणि, कुञ्जरोपमितानि वै ॥ ३ ॥ प्रेमगीताऽऽत्मतत्त्वस्य, सारभूताऽस्ति भूतले । hi संसृतिपाथोधौ, तारिणीयं मनीषिणाम् ॥ ४ ॥ प्रेमगीताप्रचारोऽयं, सूरीशेन प्रवर्त्तितः । परंपरागतो भावी, महोपकृतिकारकः ॥ ५ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir