________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarri Gyanmandir
swamanna
लग्नादि सर्व संबन्धा-भवन्ति स्वार्थ मिश्रिताः। नो पारमार्थिकी बुद्धि-रेकैव तत्र विद्यते ॥३५७॥ चतुर्थ्यां भेद बोधेन, प्राकट्यमात्मनः स्फुटम्।जायते सत्य रागस्य, मुख्यता प्रेम योगिनाम् ॥ महावीरोपरिप्रेम, जायते सद्गुरौ तथा । जैनधर्मोपरिप्रेम, जायते तत्त्वबोधतः ॥ ३५६ ॥ धर्म्ययुद्धादि कार्याणां, स्वाधिकारप्रवृत्तयः । देवगुर्वादिसंपूजा, सत्यप्रेमप्रवाहतः ॥३६०॥ जैनेन्द्रश्रीमहावीर-धर्मचिह्नस्य धारणम्। मिथ्यात्वकुप्रवृत्तिनां, वारणं प्रेमभावतः ॥३६१॥ देहात्मनो वेभेदो-ज्ञानेन तत्र निश्चयः। आत्मज्ञानी भवेत्प्रेमी, देहादिभोग्यपिस्वतः॥३६२॥ अल्पदोष महालाभ-पूर्वकमात्मबुद्धितः। सर्व कर्त्तव्य कार्याणां, कर्ता भवति निश्चयी ॥३६३॥ इच्छायोगस्य मुख्यत्वं, शास्त्रयोगस्य मुख्यता।आन्तराः सर्वसम्बन्धा-मुख्यभावेन रागिणाम् ॥ पंचम्यां वर्तते प्रेमी, श्रुतचारित्रदेशतः । प्रवृत्तिधर्मसंसेवी, निवृत्तिर्गौणभावतः ॥३६५ ॥ वैरिणां प्रतिकर्मवं, जायते प्रेमधर्मिणाम् । सर्वधर्मस्य रक्षार्थ, शुद्धप्रेमोपजायते ॥३६६।। देहेन्द्रियादिभोगानां, सौख्यस्य गौणता भवेत्।मैत्र्यादि भावनाः सर्वा-जायन्ते यत्र बोधतः॥ जैनसंघस्य वात्सल्यं, सत्यप्रेम्णा विधीयते।साधूनां श्रावकाणांच, वैयावृत्त्यं स्वभावतः॥३६८॥
[३१]
-
For Private And Personal use only