________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassage sur Gyanmandir
किं कलाभिः कथाभिः किं, यौवनेन च किं फलम् ! किं फलं भोगसामग्र्या ? शुद्धप्रेमोद्भवं विना ।। वधूभिश्च वरैः किं स्यात् ? हर्म्यवासेन किं फलम् ? सत्यप्रेम न यत्राऽस्ति,श्मशानं तत्र चिन्तया सर्वकर्तव्यकार्याणां, प्रवृत्तेः प्रेमशुद्धता । नीतिमार्गप्रवृत्तेश्च, शुद्धप्रेमोद्भवो भवेत् ॥ २७५ ॥ । पुण्यपापादितत्त्वानां, मन्तारः प्रेमदेहिनः। आत्माभिमुखभावेन, परात्मानो भवन्ति ते॥२७६॥ महावीरस्य भक्ताः स्यु-र्मार्गानुसारिदेहिनः । आत्मान आन्तरास्तेस्युः,सम्यक्त्वप्रेमजीवनाः सदेहा अपि निर्देहा-आत्मानः सन्ति सत्तया ।अज्ञानमोहनाशेन, भवन्ति परमेश्वराः ॥२७८॥ व्यभिचारादि दुष्कर्म, भवेत् कामातिरेकतः। शुद्धप्रेमणितद्धः, कदापि नैव वर्तते॥ २७६ ॥ कुत्र कामोदयो मुख्यः, कदा मोहोऽविवेकतः। कुत्र सत्प्रेमयोगस्य, मुख्यता वर्तते कदा ॥२८॥ जिनेंद्रागमसद्बोधात्, सत्यप्रेम प्रजायते। मनुष्यत्वं भवेत्प्रेम्णा, पशुत्वमन्यथा स्मृतम् ।२८१|| परोपकार बुद्धित्वं, साहाय्यं च परस्परम् । जायते सत्यरागेण, विश्वसेवाविचारणा ॥ २८२ ॥ प्रेमादितमनुष्याणा-मास्यनेत्रप्रसन्नता । वाग्माधुर्यं च सत्कारो-जायते हि परस्परम् ॥२८॥ प्रेमिणां संकट प्राप्ती, प्राणार्पणं परस्परम् । कीर्तीहा न भवेन्नृणा-मात्मारामनिवासिनाम् २८४||
For Private And Personal use only