________________
www.kobairthorg
Acharya Shri Kailassagarsuri Gyanmandit
Shri Mahavir Jain Aradhana Kendra
mannummameramananew
शास्त्रविशारदजैनाचार्यसद्गुरुश्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः
अथग्रन्थकर्तुःसंक्षिप्तजीवनवृत्तान्तम् ॥ पवित्रीकृतभूमीना, श्रीमतामर्हतां मुदा । नत्वा श्रेणिं प्रवक्ष्येहं, चरित्रं स्वगुरोः शुभम् ॥ १ ॥ समस्ति जम्बूद्वीपेऽस्मिन् , भरतक्षेत्रमूर्जितम् । धनधान्यादिसंपद्भि-महारत्ननिधानकम् ॥२॥ तत्र देशशिरोरत्नं, नानातीर्थपवित्रितः । राजते गुर्जरो देशो-धर्माचाविभूषितः ॥३॥ विद्यापुराऽ (विजापुर)भिधं विद्या मन्दिरेण विभूषितम् । प्राजते पत्तनं भूरि-समृद्धेम्यगणैः श्रितम् ॥४॥ विरेजुर्यत्र दिव्यानि, मन्दिराण्यर्हतां पुरे । गगनांगणचुम्बीनि, यशांसीव महात्मनाम् ॥ ५॥ अस्ति कूर्मान्वयस्तत्र, कृषिकर्मविशारदः । दयादिगुणराशीना-मालयो धर्मभावनः ॥६॥ शिवदासः शिवश्रीमाक्, सुधीर्धर्मपरायणः । तत्राजनिष्ट भूयिष्ठ-जनवातप्रियङ्करः ॥७॥ भार्या तस्याऽभवच्छुद्ध-चारित्राऽम्बाभिधानका | सती मतल्लिका भव्या, रुचिराननपङ्कजा ॥८॥ नभोगुणाङ्कवसुधा (१९३०) मिते वैक्रमवत्सरे । माघकृष्णचतुर्दश्यां निशीथे भानुवासरे ॥९॥ तयोभक्तिमतो,हे, जज्ञे सूनुरिवांशुमान् । यदीयतेजसारिष्टं, दिदीपे दीप्तिमत्तरम् ॥१०॥ युम्मम् ॥
[१]
AnaminannnnnnnnnnnnnninAnanasoninnar
For Private And Personal Use Only