Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वेदा-18 5696555555Uk पश्च पश्चनृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ६२॥ हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । सर्व भूम्यनृते हन्ति मा स्म भूहनृतं वदी ॥ ६३ ॥ शूद्रविक्षत्रियविप्राणां यत्रोक्तेऽर्थे भवेद्वधः । तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ॥ ६४ ॥ पद्मपुराणे-वक्ता परुषवाक्यानां मन्तव्यो नरकागतः । सन्देहो न विशां श्रेष्ठ ! पुनर्यास्यति दुर्गतिम् ॥६५॥ अथ निन्दायाम्. आदित्यपुराणे-न पापं पापिनां ब्रूयात् तथा पापमपापिनाम् । सत्येन तुल्यदोषी स्यादसत्येन द्विदोषभाक् ॥ ६६ ॥ मनु०-गुरोर्यत्र परीवादो निन्दा चापि प्रवर्तते । कौँ तत्र पिधातव्यो गन्तव्यं च ततोऽन्यतः ॥ ६७ ॥ परिवादात्खरो भवति श्वा वै भवति निन्दकः । परभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥ ६८॥ मिता०-स्वगुरूणामधिक्षेपः साधुनिन्दा सुहृत्क्रुधः । ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम् ॥ ६९ ॥ इति०-पिशुनो यश्च लोकानां रन्ध्रान्वेषणतत्परः । उद्वेगजननः क्रूरः संविद्याद् ब्रह्मघातकम् ॥ ७० ॥ द्विषामपि च दोषान् ये न वदन्ति कदाचन । कीर्त्तयन्ति गुणांश्चैव ते नराः स्वर्गगामिनः ॥ ७१ ॥ ये चाभ्यासवशाद्वक्तुं न जानन्ति वचोऽप्रियम् । प्रियवाक्यैकविज्ञानास्ते नराः स्वर्गगामिनः ॥ ७२ ॥ असत्येष्वपि सत्या ये ऋजवोऽनार्जवेष्वपि । रिपुष्वपि हिता ये च ते नराः स्वर्गगामिनः ॥ ७३ ॥ आक्रोशन्तं स्तुवन्तं च तुल्यं पश्यन्ति ये नराः । शान्तात्मानो जितात्मानस्ते नराः स्वर्गगामिनः॥ ७४ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76