Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra वेदा हुश. ॥२३॥ www.kobatirth.org कीटाश्वाहिपतङ्गाश्च पशवश्व वयांसि च । स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ।। ६३३ ॥ किञ्चिदेनः कुर्वन्ति मनोव कर्मभिर्जनाः । तत्सर्वं निर्दहन्त्याशु तपसैव तपोधनाः || ६३४ ॥ अथ कर्मणि. तुर्यारण्य०- यः करोत्यशुभं कर्म शुभं वा द्विजसत्तम ! । अवश्यं फलमाप्नोति पुरुषा नात्र संशयः ।। ६३५ ।। बहवः संप्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः । महच्च फलवैषम्यं दृश्यते कर्मसन्धिषु ।। ६३६ ।। तिर्यग्योनिसहस्राणि गत्वा नरकमेव च । जीवाः संपरिवर्त्तन्ते कर्मबन्धनिबन्धनाः ।। ६३७ ॥ जन्तुस्तु कर्मभिः स्त्रैः स्वैः स्वकृतैः प्रेत्य दुःखितः । तदुःखप्रतिघातार्थमपुण्यां योनिमश्नुते ।। ६३८ ॥ ततः कर्म समादत्ते पुनरन्यन्नवं बहु । पच्यते तु पुनस्तेन भुक्त्वाऽपच्यमिवातुरः || ६३९ ।। पद्मपु० - सत्यं वदामि ते प्रीत्या नरैः कर्म शुभाशुभम् । स्वकृतं भुज्यते वैश्य ! काले काले पुनः पुनः ।। ६४० ॥ एक करोति कर्माणि एकस्तत्फलमश्नुते । अन्यो न लिप्यते वैश्य ! कर्मणाऽन्यस्य कुत्रचित् ॥ ६४१ ॥ इतिहा०—- यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा शुभाशुभं कर्म कर्त्तारमधिगच्छति ॥ ६४२ ॥ ग्रहा रोगा विषं स्तेना राजानः शकुनास्तथा । पीडयन्ति नरं पश्चात् पीडितं पूर्वकर्मणा ।। ६४३ ॥ अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथ हि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥ ६४४ ॥ नोद्यमानोऽपि पापेषु शुद्धात्मा न प्रवर्तते । वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति ॥ ६४५ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ २३॥

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76