Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ध्यानं यन्मनसा विष्णोर्मानसं तत्प्रकीर्तितम् । अतः स्नानेषु सर्वेषु मानसं स्नानमुत्तमम् ॥ ७०३ |! स्नानां मानसं स्नानं मन्वाद्यैः परमं स्मृतम् । कृतेन येन मुच्यन्ते गृहस्था अपि ते द्विजाः ॥ ७०४ ।। अथ शौचे सत्यं शौचं तपः शौच शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं जलशौचं च पञ्चमम् || ७०५ ।। शुचि भूमिगतं तोयं शुचिर्नारी पतिव्रता । शुचिर्धर्मपरो राजा ब्रह्मचारी सदा शुचिः ॥ ७०६ ।। आरम्भे वर्तमानस्य मैथुनाभिरतस्य च । कुतः शौचं भवेत्तस्य ब्राह्मणस्य युधिष्टिर ! ।। ७०७ || यदोऽङ्गशोणितकपायितचीवराणां सन्मांसभक्षणविचक्षणदक्षिणानाम् । विद्वन्निकायगुणनिन्दनकोविदानां पावित्र्यमुत्तममहो ! द्विजपुङ्गवानाम् ।। ७०८ ॥ मनु० आपः स्वभावतो मेध्याः किंपुनर्वह्नितापिताः । ऋषयस्तत्प्रशंसन्ति शुद्धिमुष्णेन वारिणा ॥ ७०९ ॥ उष्णोदकेन शुद्धिः स्यान्मूर्त्तिद्वयस्य मीलनात् । शीताम्बुनापि शुद्धिःस्यान्मूर्त्तिर्माहेश्वरी यतः ॥ ७१० || नासूर्ये हि व्रजेन्मार्गे नादृष्टां भूमिमाक्रमेत् । परिपूताभिरद्भिश्व कार्य कुर्वीत नित्यशः ।। ७११ ।। दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिवेज्जलम् । सत्यपूतां वदेद्वाणीं मनःपूतं समाचरेत् ॥ ७१२ ॥ आदित्य पु० - आपः पूता भवन्त्येता वस्त्रपूता ध्रुवं यतः । ततोऽद्भः सर्वकार्याणि पूताभिः सर्वसिद्धये ॥ ७१३ || अहिंसा तु परो धर्मः सर्वेषां प्राणिनां यतः । तस्मात्सर्व प्रयत्नेन वस्त्रपूतेन कारयेत् ।। ७१४ ।। आसंवत्सरेण यत्पापं कैवर्तस्येह न जायते । एकाहेन तदामोति अप्तजलसङ्ग्रही ।। ७१५ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76