Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
वेदा
कुन.
॥३०॥
www.kobatirth.org
अथ रात्रि भोजने
ये रात्रौ सर्वदाऽऽहारं वर्जयन्ति सुमेधसः । तेषां पक्षोपवासस्य फलं मासेन जायते ।। ८२४ ॥ विवेकविलासे - भानोः करैरसंस्पृष्टमुच्छिष्टं प्रेतसञ्चरात् । सूक्ष्मजीवाकुलं वापि निशि भोज्यं न युज्यते ।। ८२५ ।। चत्वारो नरकद्वाराः प्रथमं रात्रिभोजनम् । परस्त्रीगमनं चैव सन्धानानन्तकायके || ८२६ ॥ नोदकमपि पातव्यं रात्रावत्र युधिष्ठिर ! | तपस्विना विशेषेण गृहिगा तु विवेकिना ॥ ८२७ ॥ मृते स्वजनमात्रे सूतकं जायते किल । अस्तंगते दिवानाथे भोजनं क्रियते कथम् १ ॥ ८२८ ।। . रक्तीभवन्ति तोयानि अन्नानि पिशितानि च । रात्रौ भोजनसत्कस्य ग्रासे तत्मांसभक्षणम् ॥ ८२९ ॥ आयुर्वेदे — इन्नाभिपद्मसंकोचचण्ड रोचिरपायतः । अतो नक्तं न भोक्तव्यं सूक्ष्मजीवादनादपि ।। ८३० ॥
चनारि खलु कर्माणि सन्ध्याकाले विवर्जयेत् । आहारं मैथुनं निद्रां स्वाध्यायं च विशेषतः ॥ ८३१ ॥ आहाराज्जायते व्याधिः कूरगर्भश्व मैथुनात् । निद्रातो धननाशश्च स्वाध्याये मरणं भवेत् ।। ८३२ ।। तत्त्वं मत्वा न भोक्तव्यं रात्रौ पुंसा सुमेधसा । क्षेमं शौचं दयाधर्म स्वर्ग मोक्षं च वाञ्छता ॥ ८३३ ॥ दिवसस्याष्टमे भागे मन्दीभूते दीवाकरे । नक्तं तद्धि विजानीयान्न नक्तं निशि भोजनम् ॥ ८३४ ॥ नैवाहुति च स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्री भोजनं तु विशेषतः ।। ८३५ ।। संध्यायां यक्षरक्षोभिः सदा भुक्तं कुलोद्वह ! । सर्ववेलां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ॥ ८३६ ॥ अन्नं प्रेतपिशाचाद्यैः सञ्चरद्भिर्निरङ्कुशैः । उच्छिष्टं क्रियते यत्र तत्र नायादिनात्यये ।। ८३७ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥३०॥

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76