Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir किं चापरं दृश्यते-कैवर्तचर्मकाररजकशौण्डकादिब्राह्मणाः । यद्यपि तैाह्मणैस्तेषु गृहेषु भुक्तम्, नित्यत्वाद्वर्णानां कयं | पतनं भवेत्तस्याः ? अतो ज्ञायते-जात्या ब्राह्मणो न भवति, कस्मात ? वेदमन्वादिवचनात् । उक्तं च वेदे इन्द्रः पशुरासीत् तमायजन्तः शतेन लोकं जयन्त्यस्मिन् | शतेन लोको भविष्यति । तं जेम्यति । पशवोऽपि देवा आपद्यन्त इति । एवं यावत् -अग्निः पशुरासीत् इति पुनः पठितव्यम् । उक्तं च मनौ-अधीत्य चतुरो वेदान्साङ्गोपाङ्गान्सलक्षणान् । शूद्रात्प्रतिग्रहं कृत्वा खरो भवति ब्राह्मणः ॥ १॥ खरो द्वादशजन्मानि षष्टिजन्मानि शूकरः । श्वानः सप्ततिजन्मानि इत्येवं मनुरब्रवीत् ॥ २॥ भारते चोक्तम्-सप्तव्याधा दशार्णायां मृगाः कालंजरे गिरौ । चक्रवाकाः शरद्वीपे हंसा: सरसि मानसे । १॥ ते च जाता कुरुक्षेत्रे ब्राह्मणा वेदपारगाः । प्रस्थिता दीर्घमध्वानं ऋजवो ! मा विषीदथ ॥ २॥ पशवोऽपि यदा देवा देवा हि पशवस्तथा । ब्राह्मणाः स्युस्तथा श्वानः श्वानो ब्राह्मणा अपि ॥ ३॥ तथा मृगहंसचक्रवाकदर्शनसभावात् । ततो जानीमः-जीवेनापि ब्राह्मणो न भवति । कुलेनापि ब्राह्मणो न भवति मुनीनां कुलदोषप्रसङ्गात् । तथाचोक्तंश्रुतौ-हस्तिन्यामचलो जात उलुक्यां केशकम्बलः । अगस्त्योऽगस्तिपुष्पाच्च कोशिकः कुशसंस्तरात् ॥१॥ कठिनात्कठिनोजातः शरगुल्माच्च गौतमः । द्रोणाचार्यस्तु कलशात्तित्तिरिस्तित्तिरीसुतः॥२॥ रेणुका जनयेद्रामं ऋष्यशृङ्गं मृगी बने । कैवर्ती जनयेद्व्यासं कक्षीवन्तं च शुद्रिका ॥३॥ ORDECEMUCHER For Private and Personal Use Only

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76