Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 70
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir KirtsAH0WRAM ब्राह्मणक्षत्रियवैश्यशूद्राश्चैव युधिष्ठिर ! निर्वृत्तश्चरति यो धर्म तमेव ब्राह्मण विदः ॥ ६॥ यदा न कुरुते पापं सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ ७॥ चतुर्वेदोऽपि यो विप्रः शुक्लं धर्म न सेवते । वेदभारधरो मूर्खः स वै ब्राह्मणगर्दभः ॥ ८॥ शूद्रात्तत्मेष्यकारिणो ब्राह्मणस्य युधिष्ठिर ! | भूमावनं प्रदातव्यं यथा श्वानस्तथैव सः ॥ ९ ॥ कृषिवाणिज्यगोरक्षा राजसेवां चिकित्सितम् । ये विप्राः प्रतिपद्यन्ते न ते कौन्तेय ! ब्राह्मणाः ॥१०॥ गोरक्षकान्बाणिजकान्प्रेष्यान्वार्द्धषिकांस्तथा । मैथुने च रतान्नित्यं विप्रान्शुद्रपदाचरेत् ॥ ११ ॥ तस्माच्छुतप्रामाण्याचातुर्वर्ण्य न युज्यते । यच्चोक्तं ब्राह्मणैः- तीर्थरनानभक्तरछेदगोव्रतभरमशयनगोमयभक्षणादिभिः पुण्यं भवतीति' तदपि न युज्यते; व्यासवचनात नोदकक्लिन्नगात्रो हि रनात इत्यभिधीयते । स स्नातो यो दमस्नातः स बाह्याभ्यन्तरशुचिः ॥१॥ चित्तमन्तर्गतंदुष्टं तीर्थस्नान शुद्धयति । शतशोऽपि जलधौंतं सुराभाण्डमिवाशुचि ॥ २ ॥ आत्मानदी भारत ! पुप्यतीर्था सत्योदका शीलतटादयोभिः। तत्राभिषेकं कुरु पाण्डुपुत्र ! न वारिणा शुद्धयति चान्तरात्मा ॥३॥ भक्तच्छेदोऽप्यजीर्णादिदोषप्रतिपक्षभूतः, स पुण्यबुद्धया सेव्यमानः परं मोहाऽभिवृद्धये भवति, मोहश्च सर्वसंक्लेशानयहेतुः [8] इति त्याज्य एव । अथात्मकामैः मुखितस्य चित्तमाधीयते, समाहितचित्तस्य कुशलं प्रति चित्तं प्रवर्तते, न क्षुत्तृषाभिभृतस्प, | तस्मादभक्तच्छेदेन पुण्यं न भवति इति युक्तिरियम् । ॥३३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76